पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

                
                     पञ्चमस्तरङ्गः
काप्येतेषु रुचिः कचेषु फणिनां पुंस्कोकिलस्यैव ते
गोभिः कण्ठतटस्य हृष्यति पुरो दृक्पश्य चक्षुःश्रुतेः ।
संधानेभिनवे मिथो भगवतोर्जिह्वापृथस्पन्दिनी
भिन्नार्थां सदृसशाक्षरामपि वदन्त्येवं गिरं पातु वः ॥ १॥
अवन्तिवर्मा साम्राज्यं प्राप्य पाटितकण्टकः ।
चकार चरितैश्चित्रं सतां कण्टकितं वपुः ॥ २॥
आसतां क्षितिपामात्यौ तौ द्वावपि परस्परम्‌ ।
आज्ञादाने परिवृढौ भृत्यावाज्ञापरिग्रहे ॥ २ ॥
कृतज्ञः क्षान्तिमान्क्ष्माभृन्मन्त्री भक्तः स्मयोज्झितः।
अभङ्गुरोग्यं संयोगः सुकृतैर्जातु दृश्यते ॥ ४ ॥ ८
विवेक्ता प्राप्तराज्यः स क्ष्माभृद्वीक्ष्य नृपश्रियम्।
अविलुप्तस्मृतिर्धीमानन्तरेवमचिन्तयत् ॥ ५ ॥
गोभुजां वल्लभा लक्ष्मीर्मातङ्गोत्सङ्गलालिता ।
सेयं स्पृहां समुत्पाद्य दूषयत्युन्नतात्मनः ॥ ६ ॥
स नास्ति कश्चित्प्रथमं यः प्रदर्श्यानुकूलताम्।
संताप्यते न चरमं नीचप्रीत्येव नानया ॥ ७ ॥
चपलाभिः प्रवृद्धेयं स्वर्वेश्याभिः सहाम्बुधौ ।
तदेकचारिणीवृत्तमनया शिक्षितं कुतः ॥ ८ ॥
निःस्नेहा नान्वगात्कांश्चित्सुचिरं संस्तुताप्यसौ ।
परलोकाध्वगान्भूपानपाथेयानबान्धवान्‌ ॥ ९ ॥
हेमभोजनभाण्डादि भाण्डागारे यदर्जितम्‌
कस्मादस्य न नाथास्ते लोकान्तरगता नृपाः॥ १० ॥



आसातां इत्युचितःपाठः