पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६३
पञ्चमस्तरङ्क;

पञ्चमस्तरङ्गः ।

स क्षिति पत्तिपृतनासंमर्देन प्रकम्पयन् ।
अप्रकम्पतनुः प्राप क्रूरः शूरान्तिकं पुरः ॥ ५७ ॥
तस्य प्रविष्टमात्रस्य शस्त्रिणः शूरचोदिताः ।
मुण्डं सजीवितस्यैव चिच्छिदुर्भैरवाप्रतः ॥ ५८ ॥
आसन्ने सरसि क्षित्वा रुधिरोद्गारि तद्वपुः ।
क्ष्मापतेः क्षालितामर्षो धीरः शूरो विनिर्ययौ ॥ ५९ ॥
तस्य श्रुत्वा शिरश्छिन्नं स्वपुत्रस्येव मत्रिणा ।
क्षीणमन्युः क्षितिपतिः सवैलक्ष्य इवाभवत् ॥ ६० ॥
शूरोथ पृष्टकुशलो निर्व्यथोस्मीति भाषिणम् ।
उत्थाप्य तल्पात्तं देवं पूजाशेषमकारयत् ॥ ६१ ॥
इत्थं समस्तकृत्येषु भावज्ञः स महीपतेः ।
अनुक्त्वैव हितं तत्तत्प्राणांस्त्यक्त्वाप्यसाधयत् ॥ ६२ ॥
परस्परमनुत्पन्नमन्युकालुष्यदूषणौ ।
न दृष्टौ न श्रुतौ वान्यौ तादृशौ राजमत्रिणौ ॥ ६३ ॥
श्रीमेघवाहनस्येव साम्राज्येवन्तिवर्मणः ।
अशेषप्राणिनामासीदमारो दश वत्सरान् ॥ ६४ ॥
जलं जहद्भिः शिशिरं तटानेत्याकुतोभयैः ।
तत्कालं सेवितः पृष्ठे पाठीनैः शरदातपः ॥ ६५ ॥
अनुग्रहाय लोकानां भट्टश्रीकल्लुटादयः ।
अवन्तिवर्मणः काले सिद्धा भुवमवातरन् ॥ ६६ ॥
चरित्रे बहुवक्तव्ये येषामेकस्य पावनः ।
अयं प्रासङ्गिकः कश्चिद्वृत्तान्तो वर्णयिष्यते ॥ ६७ ॥
देशः प्रबलतोयोयं महापद्मसरोजलैः ।
कूलिनीभिश्च शबलः स्वल्पोत्पत्तिः सदाभवत् ॥ ६८ ॥