प्रथमस्तरङ्गः ।
ततस्तस्य सुतः प्राप रिपुनागकुलान्तकः ।
धुर्यः शौर्याश्रयः श्रीमान्खगेन्द्रः पार्थिवेन्द्रताम् ॥ ८९ ॥
स खागिखोनमुषयोः कर्ता मुख्याग्रहारयोः ।
हरहाससितैः कृत्यैः क्रीताँल्लोकान्क्रमाद्ययौ ॥ १० ॥
अनर्घमहिमा दीर्घमघवत्ताबहिष्कृतः ।
अथ साश्चर्यचर्यो भूत्सुरेन्द्रस्तत्सुतो नृपः ॥ ९१ ।।
शतमन्युः शान्तमन्योर्गोत्रभिगोत्ररक्षिणः ।
लेभे यस्य सुरेन्द्रस्य सुरेन्द्रो नोपमानताम् ॥ ९२ ॥
दरद्देशान्तिके कृत्वा सौरकाख्यं स पत्तनम् ।
श्रीमान्विहारं विदधे नरेन्द्रभवनाभिधम् ॥ ९३ ।।
तेन स्वमण्डलेखण्डयशसा पुण्यकर्मणा ।
विहारः सुकृतोदारो निर्मितः सोरसाभिधः ॥ १४ ॥
तस्मिन्निःसंततौ राशि प्रशान्तेन्यकुलोद्भवः ।
बभार गोधरो नाम सभूधरवरां धराम् ॥ ९५ ।।
गोधरो हस्तिशालाख्यमग्रहारमुदारधीः ।
स प्रदाय द्विजन्मभ्यः पुण्यकर्मा दिवं ययौ ॥ ९६ ॥
तस्य सूनुः सुवर्णाख्यस्ततो भूत्स्वर्णदोर्थिनाम् ।
सुवर्णमणिकुल्यायाः कराले यः प्रवर्तकः ॥ ९७ ॥
तत्सूनुर्जनको नाम प्रजानां जनकोपमः ।
विहारमग्रहारं च जालोराख्यं च निर्ममे ॥ ९८ ॥
शचीनरस्तस्य सूनुः क्षितिं क्षितिशचीपतिः ।
ततः श्रीमान्क्षमाशीलो ररक्षाक्षतशासनः ॥ ९९ ॥
राजाग्रहारयोः कर्ता शमाङ्गासाशनारयोः ।
सोभूदपुत्रः सुत्रामविष्टरार्धसमाश्रयी ॥ १०० ।।
२