( राजतरङ्गिणी
प्रपौत्रः शकुनेस्तस्य भूपतेः प्रपितृव्यजः ।
अथावहदशोकाख्यः सत्यसंधो वसुंधराम् ॥ १०१ ॥
यः शान्तवृजिनो राजा प्रपन्नो जिनशासनम् ।
शुष्कलेत्रवितस्तात्रौ तस्तार स्तूपमण्डलैः ॥ १०२ ॥
धर्मारण्यविहारान्तर्वितस्तात्रपुरेभवत् ।
यत्कृतं चैत्यमुत्सेधावधिप्रात्यक्षमेक्षणम् ॥ १०३ ॥
स षण्णवत्या गेहानां लक्षैर्लक्ष्मीसमुज्वलैः ।
गरीयसी पुरीं श्रीमांश्चक्रे श्रीनगरीं नृपः ॥ १०४ ॥
जीर्ण श्रीविजयेशस्य विनिवार्य सुधामयम् ।
निष्कल्मषेणाश्ममयः प्राकारो येन कारितः ।। १०५ ।।
सभायां विजयेशस्य समीपे च विनिर्ममे ।
शान्तावसादः प्रासादावशोकेश्वरसंज्ञितौ ॥ १०६ ।
म्लेच्छैः संछादिते देशे स तदुच्छित्तये नृपः ।
तपःसंतोषिताल्लेभे भूतेशात्सुकृती सुतम् ॥ १०७ ॥
सोथ भूभृजलौकोभूलोकसुरनायकः ।
यो यशः सुधया शुद्धं व्यधाद्ब्रह्माण्डमण्डलम् ॥ १०८ ।।
यस्य दिव्यप्रभावस्य कथाः श्रुतिपथं गताः ।
आश्चर्याचार्यतां यान्ति नियतं घुसदामपि ॥ १०९ ॥
कोटिवेधिनि सिद्धे हि स रसे हाटकार्पणैः ।
आसीत्सुषिरतां हतु हेमाण्डस्य ध्रुवं क्षमः ॥ ११० ॥
संस्तम्भ्याम्भःप्रविष्टेन तेन नागसरोन्तरम् ।
तारुण्यं फणिकन्यानां निन्ये संभोगभव्यताम् ॥ १११ ॥
तत्कालप्रबलप्रेद्धबौद्धवादिसमूहजित् ।
अवधूतो भवत्सिद्धस्तस्य ज्ञानोपदेशकृत् ॥ ११२ ॥