राजतरत्रिणी
ततो निक्षिप्य चरणं रक्ताक्ते मेषचर्मणि ।
कोशं चक्रतुरन्योन्यं सखगौ नृपडामरौ ॥ ३२६ ॥
अथ संघटितासंख्यचण्डडामरमण्डलः |
चक्रवर्माकरोद्यात्रां प्रत्यूषे नगरोन्मुखः ॥ ३२७ ॥
तस्मिन्क्षणे पुरस्कृत्य योद्धुं शंकरवर्धनम् ।
विनिर्ययुः सिताष्टम्यां चैत्रे तत्रिपदातयः ॥ ३२८ ॥
कालानुवृत्तिप्रच्छन्नं तेषां संभावनोज्झितम् ।
स तत्वरे पुरस्कर्तुं चक्रवर्मा स्वविक्रमम् ॥ ३२९ ॥
अथ प्रवृत्ते संग्रामे घोरे पद्मपुराद्वहिः ।
जघान प्रेरितहयः पूर्व शंकरवर्धनम् ॥ ३३० ॥
हते सेनाधिपे तत्र शतधा तत्रिवाहिनी ।
प्रययौ पवनाघातप्रेरिता नौरिवार्णवे ॥ ३३१ ॥
पृष्ठानुसरणोद्युक्तो नृपस्तेषामपाहरत् ।
गतिं तुरगवेगेण शिरःश्रेणिं तथासिना || ३३२ ॥
भ्रमतः समरे बभ्रुवरपट्टाञ्चलच्छटाः ।
चक्रवर्ममृगेन्द्रस्य सटापटलविभ्रमम् ॥ ३३३ ॥
किमन्यत्पञ्चषाण्यासन्सहस्राणि रणाङ्गने ।
पतितानि क्षणादेव हतानां तत्र तत्रिणाम् ॥ ३३४ ॥
तत्रिणो रणसंरम्भपरिश्रान्ताः क्षमातले ।
गृध्रपक्षकृतच्छाये शायिताश्चक्रवर्मणा || ३३५ ॥
विशुद्धवंश्यैर्गुणिभिनिहतः संश्रितैः समम् ।
अभूषयद्वीरशय्यां शूरः शंकरवर्धनः || ३३६ ॥
उदयं संहता एव संहता एव च क्षयम् ।
प्रयान्तः स्पृहणीयत्वं तत्रिणः कस्य नागमन् ॥ ३३७ ॥