१९० राजतरङ्गिणी
गायन्त्येकानतमुखी कर्णव्यालोलकुण्डला ।
विपरीतरतोद्रेककृतारम्भेव शोभते ॥ ३७३ ॥
सफलं तस्य तारुण्यमीदृश्यो निर्जने स्त्रियः ।
औत्सुक्याद्विरहे यस्य गायन्त्येवंविधैः स्वरैः ॥ ३७४ ॥
उपपत्तिपरित्यक्तशास्त्रानुष्ठानमोहितैः ।
एकसार्थप्रयातेभ्यः कथमेको विवर्ज्यते ॥ ३७५ ॥
नेत्रस्य रूपं श्रोत्रस्य ध्वनिं संस्पृशतो न चेत् ।
तदङ्गस्यान्यकान्ताङ्गं स्पृशतो दुष्कृतं कुतः ।। ३७६ ।।
अभिलाषाङ्कुरः सिक्त इव तैर्विटभाषितैः ।
राज्ञः स्वभावलोलस्य शतशाखत्वमाययौ ॥ ३७७ ॥
ये विस्तारितवर्णसंकररुचः संदर्य गोत्रान्तकृ-
द्वद्धावस्थितिचापलङ्घनमलं पार्श्वे धनन्त्युद्धताः ।
नीयन्ते विपथावपातपरतां लब्धोदयैस्तैः क्षणा-
त्सिहा वारिधरैरमी च रभसाद्भूपालसिंहा विटैः ॥ ३७८ ॥
वस्तु क्षणादनुपपत्त्युपपत्तियुक्तं
कृत्वा जडान्यदि विमोहयितुं समर्थाः ।
न स्युविंटा अथ कुतर्कपथस्थिताश्च
नित्योद्वसेषु निरयेषु मृगाश्चरेयुः ॥ ३७९ ॥
संतोप्य हारकेयूरकुण्डलैडर्डोम्बमण्डलम् ।
अमार्गत्यागराधेयः शुद्धान्तमगमन्नृपः ॥ ३८० ॥
कान्तोस्याः क्षितिबल्लभोयमभिधेत्युर्वीपतेरेकतो
ब्रूतेसावतिचण्डताण्डवयुतं डोम्बस्य नामान्यतः ।
मध्ये यत्किमपीति गीतरचनाकाव्यं यदेतद्विदो
यल्लक्ष्मी क्षपयन्ति तान्धिगबुधान्कीर्त्यार्थिनः पार्थिवान् ||३८१ ॥