पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९३
पञ्चमस्तरङ्गः ।

पूर्वोपकारन्विस्मृत्य डामरान्स निरागसः |
नृपतिः श्वपचाकामी विश्वस्तांश्छ्द्मनावधीत् ॥ ४०५ ॥
हन्तुं व्याजेन विश्वस्ताः केचिड्डामरतस्कराः।
तस्थुस्तस्यान्तिके दोहच्छिद्रानेहःप्रतीक्षिणः ॥ ४०६ ॥
श्वपाकीशयनावासासन्नावस्करमन्दिरे ।
शौचस्थितं तं निःशस्त्रं ते रात्रौ प्रापुरेकदा ॥ ४०७॥
अथ तैः प्राप्तसमयैरकस्मात्तस्य सर्वतः ।
क्षिप्रं न्यपात्यताशेषशातशस्त्रपरम्परा ॥ ७०८ ॥
सुप्तस्तटाद्भदे भ्रष्ट इव निद्रालसेक्षणः ।
प्र्वुद्धः शखपातैः स व्यमुचद्भैरवान्रवान् ॥ ४०९. ॥
निःशस्त्रः शस्त्रमन्विष्यन्क्षरत्क्षतजनिर्झरः |
अनुद्रतोरिभिर्धावञ्शय्या विवेश तत्‌ ॥ ४१० ॥
अप्राप्तहेर्ति क्रन्दन्त्या श्वपाक्यालिङ्गिताङ्गकम् ।
तत्कुचोत्सङ्गलग्नाङ्ग्ं जघ्नुस्तेनुप्रविश्य तम्‌ ॥ ४११ ॥
स्वैरेव प्रेरिता दारैस्ते तस्य नृपतेः किल ।
मुमूर्षोर्जानुनी स्वैरं शिलया समचूर्णयन् ॥ ४१२ ॥
त्रयोदशाब्दे ज्येष्ठस्य शुक्राष्टम्यां क्षपाक्षणे ।
श्वपाकभोग्यः स श्वेवावस्करे तस्करैःर्हतः ॥ ४१३ ॥
उन्मत्तावन्तिनामाथ पार्थसूनुर्दुराशयः ।
अभ्यषिच्यत वैधेयैः सचिवैः शर्वटादिभिः॥ ४१४ ॥
श्वपाकीकामुके पापे निहते निशि तस्करैः ।
प्रजानां पाप्मना सोभूत्पापात्पापतरो नृपः ॥ ४१५ ॥
स्थगिता तत्कथापापस्पर्शभीत्या सरस्वती ।
कथंचित्रस्नुरश्वेव सेयं प्रस्थाप्यते मया ॥ ४१६ ॥
२५