पञ्चमस्तरङ्गः । १९७
एकाङ्गतत्रिसामन्तस्यालहारकसादिभिः ।
नगरं प्रविशञ् श्रान्तः समं सैन्यैररुध्यत ॥ ४५२ ॥
विरुद्धडामरानीकान्युद्धा मार्गेषु निर्गतः ।
श्रान्तोप्यसौ वैरिसेनामजयद्विक मोर्जितः ॥ ४५३ ॥
सहस्रमश्ववाराणां विद्राव्य तुरगेमिंतैः ।
राजधानीमसंरुद्धः प्रविवेश ततः क्षणात् ॥ ४५४ ॥
तं लब्धजयमाकर्ण्य सैन्यैस्त्यक्तं पलायितैः ।
एकाकिनं क्वाप्यनयजननी शिशुभूपतिम् ॥ ४५५ ॥
प्राकर्मभिर्मोहितो वा प्रेरितो वा कुमत्रिभिः ।
नाभूत्सिंहासनारूढो मूढः कमलवर्धनः ॥ ४५६ ॥
तदानीं स्वगृहान्यातो राज्यकामोन्यवासरे ।
संघट्टयद्विजान्सर्वानचूचुदनीतिवित् ॥ ४५७ ॥
प्रौढं शक्तं च कुरुत क्षमापं कंचित्स्वदेशजम् |
मामेव कुर्युः सामर्थ्यादिति मूढः स चिन्तयन् ॥ ४५८ ॥
एकाकिनी रहः क्षीबां लब्ध्वा दुर्लभयोषितम् ।
अप्रौढोनुपभुज्यान्यदिने दूत्यार्थयेत यः ॥ ४५९ ॥
विभूतिं रभसावाप्तां यश्च संत्यज्य तत्क्षणम् ।
नीत्या कामयतेन्येद्युः शोच्यस्ताभ्यां परोस्ति कः ॥ ४६० ॥
युग्मम् ॥
अथोत्पलकुले छिन्ने स्थूलकम्बलवाहिनः ।
अटङ्गोक्षनिभा विप्राः समगंसत गोकुले ॥ ४६१ ॥
धूमनिर्दग्धकूर्चानां राज्ञस्तांस्तांश्चिकीर्षताम् ।
राज्यव्यवस्थोपन्यासस्तेषां चिरमवर्धत ॥ ४६२ ॥
१ संघध्यन् इत्युचितम् ।