पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ राजतरङ्गिणी

वैमत्येन मिथस्तेषां नान्यः कोप्यभ्यषिच्यत ।
कूर्चा भाषणनिष्ट्यूतैः स्वकूर्चः ष्टीवनैः परम् ॥ ४६३ ॥
राज्यार्हान्वेषिभिर्विप्रैः प्राप्तः स्वस्मृतिकृप्तये ।
अवार्यतेष्टकाघातैर्मुग्धः कमलवर्धनः ॥ ४६४ ॥
पञ्चषाणि दिनान्येव यावत्तस्थुर्द्विजातयः |
काहलाकांस्यतालादिवाद्यकोलाहलाकुलम् ॥ ४६५ ॥
उत्पताकध्वजच्छत्रशोभियुग्यार्पितासनम्

अशेषं पारिषद्यानां तावत्तत्रामिलइलम् ॥ ४६६ ॥
युग्मम् ॥
स्वपत्नीं वन्धकीभूतामिवान्यवशवर्तिनीम् ।
वीक्ष्य राजश्रियं शोचन्नासीत्कमलवर्धनः ॥ ४६७ ।।
पितृघातिवधूश्छन्नपुत्रराज्यार्थिनी ततः ।
ग्राहिणोद्राजपुरुषान्पार्श्वे प्रायोपवेशिनाम् ॥ ४६८ ॥
पिशाचकपुरग्रामे वीरदेवाभिधस्य यः ।
कुटुम्विनः कामदेवनामा सूनुरजायत ॥ ४६९ ॥
स शिक्षिताक्षरो लब्ध्वा मेरुवर्धनमन्दिरे |
बालाध्यापकतां स्नानशीलादिगुणभूषितः ॥ ४७० ॥
क्रमाद्गञ्जाधिकार्यासीदथ तस्यात्मजः शनैः ।
लेभे गञ्जाधिकारित्वं राज्ञः शंकरवर्मणः ॥ ४७१ ॥
यः प्रभाकरदेवोपि सुगन्धाछन्नकामुकः ।
लक्ष्म्या सरस्वतीद्वेषाद्देशविप्लवतोथवा ॥ ४७२ ॥
विद्वान्यशस्करो नाम तत्पुत्रोत्यन्तदुर्गतः ।
सख्या फल्गुनकाख्येन समं देशान्तरं गतः ॥ ४७३ ॥

१ उच्चभाषण इति स्यात् ।