पञ्चमस्तरङ्गः ।
सुस्वप्नदर्शनैः पीठदेव्याशीर्भिश्च हर्षुलः ।
तस्मिन्प्रसङ्गे सोत्साहः प्रत्यावृत्तो निजां भुवम् ॥ ४७४ ॥
पितृधातिवधूदूतैर्यातैर्बोधयितुं द्विजान् ।
मध्ये गृहीतो वाग्ग्मित्वात्प्रविवेश तदन्तिकम् ॥ ४७५ ॥
कुलकम् ॥
१९९
दृष्ट्वैव तं दैववशादैकमत्यस्पृशो द्विजाः ।
ध्वनिं राजायमेवास्त्वित्युच्चकैरुदचारयन् ॥ ४७६ ॥
अथाभ्यषिच्यत क्षिप्रं विप्रैरेत्य यशस्करः ।
क्ष्माधृतिप्रौढसामर्थ्यः सानुमानिव तोयदैः ॥ ४७७ ॥
दग्धं वेणुवनं परस्परमहासंघर्षजेनाग्निना
तन्मूलोद्धृतिरम्भसा क्षणधृतोद्रेकेण संपादिता ।
वात्यावेगविपाटितं विटपिनं प्राप्तं कुतश्चिदृढां
रूढिं नेतुमहो महाद्रिकुहरे धात्रा न किं सूत्रितम् ॥ ४७८ ॥
भृत्यप्रेरणया वंशं पार्थजः स्वं न चेद्दहेत् ।
तत्पुत्रोत्पाटनं कुर्यान्न चेत्कमलवर्धनः ॥ ४७९ ॥
अनुच्चकुलजातस्य दरिद्रस्याटतः क्षितिम् ।
तद्यशस्करदेवस्य राज्यप्राप्तिः कथं भवेत् ॥ ४८० ॥
पद्भ्यां व्रजन्निरनुगो दहशे जनेन
यस्तत्क्षणं निखिललोकसमानमूर्तिः ।
साम्राज्यरम्यममुमीक्षितुमास्त नारी-
दृङ्गीरजस्तबकितो नरनाथमार्गः ॥ ४८१ ॥
नृपतिवसतिं प्रत्यागच्छन्य शस्करभूपतिः
पुरमृगदृशामाशीमध्ये वचोपि विवक्षितम् ।
स्तिमितवलितापाङ्गं शृण्वन्निमीलदहंकृतिः
कृतपरिकरस्तज्ज्ञैर्जज्ञे प्रजापरिपालने ॥ ४८२ ॥