पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

परलोकं गते तस्मिन्सर्वभारसहेनुजे ।
तुङ्गश्छिन्नोत्तमाङ्गत्वं सदैन्योमन्यतात्मनः ॥ ४६॥
श्रीत्रिलोचनपालस्य शाहेः साहायकार्थिनः ।
देशं ततो मार्गशीर्षे मासि तं व्यसृजन्नृपः ॥ ४७ ॥
राजपुत्रमहामात्यसामन्तादिनिरन्तरम् ।
सैन्यं तमन्वगाद्भूरि भुवनक्षोभणक्षमम् ॥ ४८ ॥
अग्रागतेन स तथा शाहिना कृतसत्क्रियः ।
पञ्चषाणि दिनान्यासीत्तद्देशे स यदोन्मदः ॥ ४९ ॥
प्रजागरचरन्यासशस्त्राभ्यासादिवासनाः ।
अभियोगोचिताः शाहिरपश्यंस्तं तदाब्रवीत् ॥ ५० ॥
युग्मम् ॥
तुरुष्कसमरे यावन्न यूयं कृतबुद्धयः ।
आलस्यविवशास्तावत्तिष्ठतास्मिन्गिरेस्तटे ॥ ५१ ॥
एवं त्रिलोचनेनोक्तं सोग्रहीन हितं वचः ।
तस्थौ परं समं सैन्यैरुत्सेकादाहवोत्सुकः ॥ ५२ ॥
हम्मीरेण तदा सैन्यं जिज्ञासार्थ विसर्जितम् ।
तौषपारे मितप्रायैस्ततस्तीत्ववधीद्वलैः ॥ ५३ ॥
ततस्तमाहितोत्सेकमपि शाहिः पुनः पुनः ।
जगादाहवतत्त्वज्ञः पूर्वोक्तामेव संविदम् ॥ ५४॥
स तस्य नाग्रहीद्वाक्यं रणौत्सुक्यवशंवदः ।
प्रत्यासन्नविनाशानामुपदेशो निरर्थकः ॥ ५५ ॥
प्रातस्ततः स्वयं कोपात्तु रुष्कानीकनायकः ।
सर्वाभिसारेणागच्छच्छलाहवविशारदः ॥ ५६ ॥
अथ तुङ्गस्य कटकः सहसा भङ्गमाययौ ।
शाहिसैन्यं परं संख्ये दहशे विचरत्क्षणम् ॥ ५७ ॥

२३७