पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ राजतरङ्गिणी

शाहिसैन्ये गतेप्यासीजयसिंहः स्फुरव्रणे ।
श्रीवर्धनश्च संग्रामे विभ्रमार्कश्च डामरः ॥ ५८ ॥
घोरे तुरंगतुमुले प्रहरद्भिस्त्रिभिर्भरैः ।
वीरक्षेत्रे निजे देशे रक्षितस्तैर्यशःक्षयः ॥ ५९ ॥
कस्त्रिलोचनपालस्य माहात्म्यं वक्तुमीश्वरः ।
निःसंख्या अपि यं संख्ये न जेतुमशकन्द्विषः ॥ ६० ॥
शुशुभे रुधिरासारवर्षी युद्धे त्रिलोचनः ।
कल्पान्तदहनज्योतिर्विसारीव त्रिलोचनः ॥ ६१॥
स योधयित्वा संग्रामे कोटीः कङ्कटवाहिनाम् ।
एकाकी कार्यमर्मज्ञो निर्ययौ रिपुसंकटात् ॥ ६२ ॥
गते त्रिलोचने दूरमशेषं रिपुमण्डलम् ।
प्रचण्डचण्डालचमूशलभच्छायमानशे ॥ ६३ ॥
संप्राप्त विजयोप्यासीन्न हम्मीरः समुच्छ्रसन् ।
श्रीत्रिलोचनपालस्य स्मरञ्शौर्यममानुषम् ॥ ६४ ॥
त्रिलोचनोपि संश्रित्य हास्तिकं स्वपदाच्युतः ।
सयत्नोभून्महोत्साहः प्रत्याहतु जयश्रियम् ॥ ६५ ॥
यथा नामापि निर्नष्टं शीघ्रं शाहिश्रियस्तथा ।
इह प्रासङ्गिकत्वेन वर्णितं न सविस्तरम् ॥ ६६॥
स्वप्नेपि यदसंभाव्यं यत्र भग्ना मनोरथाः ।
हेलया तद्विद्धतो नासाध्यं विद्यते विधेः ॥ ६७ ॥
ईषद्यद्भूमिवैपुल्यं राज्ञः शंकरवर्मणः ।
वृत्तान्तवर्णने पूर्वममुत्र प्रकटीकृतम् ॥ ६८ ॥
स शाहिदेश: सामात्यः सभूभृत्सपरिच्छदः ।
किमभूत्किमु वा नाभूदिति संचिन्त्यतेधुना ॥ ६९ ॥