सप्तमस्तरङ्गः ।
अवतारं तुरुष्काणां दत्त्वाशेषे महीतले ।
प्राप्तभङ्गस्ततस्तुङ्गः स्वदेशं प्राविशच्छनैः ॥ ७० ॥
सृगालायेव तुङ्गाय लब्धभङ्गाय भूपतिः ।
न तत्रागसि चुक्रोध स धैर्यसदृशाशयः ॥ ७१ ॥
किं तु खेदाय समभूत्तुङ्गायत्तत्वमीशितुः |
परायत्ततया चित्तं पशोरप्युपतप्यते ॥ ७२ ॥
तुङ्गात्मजोपि कंदर्पसिंहः श्रीशौर्यगर्वितः ।
रोज्योचितं व्यवहरंस्तस्योद्वेगप्रदोभवत् ॥ ७३ ॥
गूढलेखै: क्षणे तस्मिंश्छिद्रान्वेषी स भूभुजाम् ।
भ्राता विग्रहराजोपि प्रैरयत्तुङ्गमारणे ॥ ७४ ॥
कोशादिस्मरणाद्वाजा चिरं दोलायमानधीः ।
अभीक्ष्णप्रेरणोद्विग्नः प्रेरकानब्रवीत्ततः ॥ ७५ ॥
एकाक्येव सपुत्रः स गोचरे नः कदाचन ।
पतेद्यदि क्षणे तस्मिन्पश्यामः किं विदध्महे ॥ ७६ ॥
अन्यथा ध्रुवमाक्षिप्तो हन्यादस्मानसौ बलात् ।
इति कालापहारार्थमुक्त्वाभूद्विरतो नृपः ॥ ७७ ॥
तावन्मात्रं वचो बीजभूतं हृदि निधाय ते ।
विधातुं तदवस्थत्वं तुझ्स्यासन्कृतोद्यमाः ॥ ७८ ॥
षण्मासाभ्यन्तरे तुङ्गो भूपेनाकारितो गृहात् ।
ससुतो निर्ययौ दृष्टदुःस्वप्नोपि विधेर्वशात् ॥ ७९ ॥
स प्रविश्य नृपास्थानं स्थित्वा राज्ञोग्रतः क्षणम् ।
पञ्चषैः सहितो भृत्यैः प्राविशन्मत्रमण्डपम् ॥ ८० ॥
पश्चात्प्रविष्टास्तत्रैनं पर्वशर्करकादयः ।
अनुक्त्वापि महीपालं तुङ्गं शस्त्रैरपातयन् ॥ ८१ ॥
१ राजोचितं इत्युचितः पाठः | २ भूभुजम् इत्युचितः पाठः । २३९