पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

राजतरङ्किणी

बोधिसत्वश्च देशोस्मिन्नेको भूमीश्वरोभवत्‌ ।

स च नागार्ज्जुनः श्रीमान्षडहर्द्वसंश्रयी ॥ १.७३ ॥ अथ निष्कण्टको राजा कण्टकोत्साग्रहारदः । अभीर्बभूवाभिमन्युः शतमन्युरिवापरः ॥ १७३ ॥ स्वनामाङ्कं शशाङ्काङ्कशेखरं विरचय्य सः । परार्ध्यविभवं श्रीमानभिमन्युपुरं व्यधात्‌ ॥ १९७५ ॥ चन्द्राचार्यादिभिरैर्लब्ध्वादेशं तस्मात्तदागमम्‌ । प्रवर्तितं महाभाष्यं स्वं च व्याकरणं क्रुतम्‌ ॥ १७॥ तस्मिन्नवसरे बौद्धा देशे प्रबलतां ययुः । नागार्ज्जुनेन सुधिया बोधिसत्वेन पालिताः ॥ १७७्॥ ते वादिनः पराजित्य वादेन निखिलान्वुधान्‌ । क्रियां नीलपुराणोक्तामच्छिन्दन्नागमद्धिषः ॥१७८ ॥ मण्डले विष्ताचारे विच्छिन्नवलिकर्मभिः । नागैर्जनक्षयश्चक्रे प्रभूतहिमवर्षिभिः ॥ १७९. ॥ हिमान्यां वौद्धवाधाय पतन्त्यां प्रतिवत्सरम्‌ । शीते दार्वाभिसारादौ षण्मासान्पार्थिवोवसत्‌ ॥१८० ॥ तदा प्रभावः कोप्यासीद्द्विलिदहोमविधायिनाम्‌ । नानशन्यद्वराद्धिप्रा बौद्धाश्च निधनं गताः ॥१८१ ॥ नीलमुदिश्य देशस्य रक्षितारमहीश्वरम्‌ । काश्यपश्चन्द्रदेवाख्यस्तपस्तेपे ततो द्विजः ॥१८२॥ तस्य प्रत्यक्षतां यातो नीलस्तुहिनविप्लवम्‌ । न्यवारयज्जगादापि स्वपुराणविधिं पुनः ॥ १८२ ॥ आद्येन चन्द्रदेवेन शमितो यक्षविप्लवः।

द्वितीयेन तु देशेसिन्दुहो भिक्षुविप्लवः ॥ १८४ ॥