पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४२ राजतरङ्गीणी


मम्मायामवरुद्धायां कंदर्पो यावजीजनत्‌ ।
पुन्नं विचित्रसिंहं च मातृर्सिहं च विश्रुतौ ॥ १०४ ॥
गृहित्वा तौ खुषां तां च मंगना तुंगवल्लभा |
देशाद्धिनिर्गता दीना राजपुर्यौ स्थितिं व्यधात्‌ ॥ १०५ ॥
युग्मम्‌ ॥
तुङ्गस्थाने ततो राज्ञा पापो भद्रेश्वरः कृतः ।
भूतेभ्वरादिदेवानां चक्रे कोशादिलुण्ठम् ॥ १०६ ॥
कियद्धिवेकवैकल्पमस्य राज्ञः प्रकाश्यताम्‌ ।
ताद्रृशानपि यश्चक्रे पार्थादीनधिकारिणः ॥ १०७ ॥
पार्थ: परमदुर्मेधाः ख्यातोभ्रातृकलन्नग: ।
निर्विचारेण यत्तेन नगराधिकृतः कृतः ॥ ९०८ ॥
वधादिपापं पार्थेन सुकृतत्यक्तचेतसा ।
पवित्रे प्रवरेशस्य रङ्गपीठे प्रवर्तितम्‌ ॥ ९०९ ॥
चक्रे लुब्धस्य भूभर्तु: पतङ्गः कृपणाग्रणीः ।
सिन्धोः सुतः कोशवृद्धिं प्रजापीडनपण्डितः ॥ ६१० ॥
पुरा देवसुखाख्यस्य दिविरस्य किलाजनि ।
आपूपिकायां वेश्यायांपुत्रश्चन्द्रमुखाभिधः ॥ २११ ॥
यस्तुङ्गोपाश्रयाल्लब्ध्वा ललितत्वं महीपतेः ।
वराटकात्प्र्त्यासीत्कोटिनां कृतसंचयः ॥ ११२ ॥
विश्वध्ये लुब्धस्य प्राभृतायान्यढौकितैः ।
अपूपैर्निजभृत्येषु विक्रयोभूत्कुलोचितः ॥ ९५३ ॥
प्रभूताग्निरोगश्च भूत्वा लब्धोदयः पुनः ।
यो मन्दाग्निः सरोगश्च तिष्ठंलोकैर्व्यहस्यत ॥ २१४ ॥
पकमेवाभवद्यस्य सुकृतं मरणक्षणे ।
कोटेस्त्रिभागं यददाच्छीरणेश्वरयोजने ॥ १९५ ॥