२० राजतरङ्गिणी
द्रक्ष्यस्यावामपि तदा तदभ्यर्णकृतस्थिती ।
इत्युक्त्वा फणिकन्ये ते क्षणादास्तां तिरोहिते ॥ २२१ ॥
क्रमात्प्रववृते सोथ नटचारणसंकुलः ।
प्रेक्षिलोकसमाकीर्णस्तत्र यात्रामहोत्सवः ॥ २२२ ॥
द्विजोपि कौतुकाकृष्टः पर्यटन्रङ्गमञ्जसा ।
कन्योक्तचिह्नज्ञातस्य नागस्यान्तिकमाययौ ॥ २२३ ॥
पार्श्वस्थिताभ्यां कन्याभ्यां पूर्वमावेदितोथ सः ।
द्विजन्मने व्याजहार स्वागतं नागनायकः ॥ २२४ ॥
ततः कथान्तरे क्वापि पृष्टः कारणमापदाम् ।
जगाद तं द्विजन्मानं निःश्वस्य श्वसनाशनः ॥ २२५ ॥
अभिमानवतां ब्रह्मन्युक्तायुक्तविवेकिनाम् ।
युज्यतेवश्यभोग्यानां दुःखानामप्रकाशनम् ॥ २२६ ॥
परदुःखं यदाकर्ण्य स्वभावसुजनो जनः ।
उपकारासमर्थत्वात्प्राप्नोति हृदयव्यथाम् ॥ २२७ ॥
वृत्तिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभि-
र्व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः ।
गर्योपायनिषेवणं कथयति स्थास्तुं वदन्व्यापदं
श्रुत्वा दुःखमरुंतुदां वितनुते पीडां जनः प्राकृतः ॥ २२८ ॥
अत एव विवेक्तॄणां यावदायुः स्वमानसे ।
जीर्णानि सुखदुःखानि दहत्यन्ते चितानलः ॥ २२९ ॥
कः स्वभावगभीराणां लक्षयेद्वहिरापदम् ।
बालापत्येन भृत्येन यदि सा न प्रकाश्यते ॥ २३० ॥
तदस्मिन्नेतयोर्बाल्याद्वस्तुनि व्यक्तिमागते ।
तवाग्रे गोपनं साधो न ममाप्युपपद्यते ॥ २३१ ॥