सप्तमस्तरङ्गः ।
अपलापवचोमात्रं निनीषुस्तस्य हेतुताम् ।
जनप्रत्यायने सोभूयस्मात्सान्तिसमुत्सुकः ॥ ६५० ॥
हर्षस्तु साधुवादैस्तत्पितुः संपूज्य भाषितम् ।
वक्ष्याम्याप्तमुखे तत्त्वमित्युक्त्वा निर्ययौ बहिः ॥ ६५१ ॥
सामान्यप्रेरणादेषा चिकीर्षाभूदिति ब्रुवन् ।
स पितृप्रहितं दूतं ह्रीतः स्वावसथं ययौ ॥ ६५२ ॥
द्रुतं म्लानाननं वीक्ष्य पाणिभ्यां ताडयन्शिरः ।
हा पुत्रेति वदत्राजा तस्यास्कन्दमदापयत् ॥ ६५३ ।।
हतेस्मिन्स्वशिरश्छिन्द्यामिति प्रोक्तवतः प्रभोः ।
निदेशाद्वेष्टयित्वैव तस्थुस्तद्वेश्म शस्त्रिणः ॥ ६५४ ॥
तीक्ष्णास्तु पिहितद्वाराः परिवार्य नृपात्मजम् ।
ऊचुः सपरुषां वाचमेवं निश्चितमृत्यवः ॥ ६५५ ।।
अस्मान्घृणी प्रमादी च विरुद्धं छद्म कारयन् ।
घातयित्वा दुराचार व जीवन्स्थातुमिच्छसि ॥ ६५६ ॥
रक्षिष्यति सुतं स त्वां स पिता रक्षितस्त्वया ।
ज्ञातेयं युवयोरस्ति वयमेव हताः पुनः ।। ६५७ ।।
युध्यस्व मध्यगोस्माकं त्वां निहन्मोन्यथा वयम् ।
एवं सर्वप्रकारं ते व्यक्तं नास्त्येव जीवितम् ॥ ६५८ ॥
तां वार्ता भूपतेः श्रुत्वा व्याकुलस्याग्रतः स्थितः ।
हर्षान्तिकं दण्डकाख्यः प्रायान्निजमहत्तरः ॥ ६५९ ।।
तीक्ष्णैर्निजतया दत्तप्रवेशः स नृपात्मजम् ।
प्रसृत्योवाच मतिमानेवं सर्वान्विमोहयन् ॥ ६६० ॥
क्षत्रियापुत्र जीवित्वा कल्पानल्पेतरानपि ।
कारणैरपि गन्तव्यं नियमान्नियतेर्वशम् ॥ ६६१ ॥
२७