पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमस्तरङ्गः ।

तत्रापि पूर्वसंस्कारादुक्तत्रासं दधे जनः ।
श्मशानविहिते लीलावेश्मनीव नृपास्पदे ॥ ३२६ ॥
अतिसंतापदाजातः स जनाह्लादकोभवत् ।
जलौघो जलदश्यामात्तापात्ययदिनादिव ॥ ३२७ ॥
लोकान्तरादिवायातं मेने धर्म तदा जनः ।
अभयं च परावृत्तं प्रवासाङ्गहनादिव ॥ ३२८ ॥
स बकेशं बकश्वभ्रे बकवत्यापगां तथा ।
कृत्वा पुरं परार्ध्यश्रीलवणोत्साभिधं व्यधात् ॥ ३२९ ॥
तत्र त्रिषष्टिर्वर्षाणां सत्रयोदशवासरा ।
अत्यवाह्यत भूपेन तेन पृथ्वीं प्रशासता ॥ ३३० ॥
अथ योगेश्वरी काचिद्वट्टाख्या रजनीमुखे ।
कृत्वा कान्ताकृति काम्यामुपतस्थे विशां पतिम् ॥ ३३१ ॥
तया मनोहरैस्तैस्तैर्वचनैर्लपितस्मृतिः ।
स यागोत्सवमाहात्म्यं द्रष्टुं हृष्टो न्यमत्र्यत ॥ ३३२ ॥
पुत्रपौत्रशतोपेतः प्रातस्तत्र ततो गतः ।
चक्रवर्ती तया निन्ये देवीचक्रोपहारताम् ॥ ३३३ ॥
कर्मणा तेन सिद्धाया व्योमाक्रमणसूचकम् ।
जानुमुद्राद्वयं तस्या दृषद्यद्यापि दृश्यते ॥ ३३४ ॥
देवः शतकपालेशो मातृचक्रं शिला च सा ।
खेरीमठेषु तद्वार्तास्मृतिमद्यापि यच्छति ॥ ३३५ ॥
देव्या कुलतरोः कन्दः क्षितिनन्दोवशेषितः ।
ततस्तस्य सुतस्त्रिंशद्वत्सरानन्वशान्महीम् ॥ ३३६ ॥
द्वापञ्चाशतमब्दान्क्ष्मां द्वौ च मासौ तदात्मजः ।
अपासीद्वसुनन्दाख्यः प्रख्यातस्मरशास्त्रकृत् ॥ ३३७ ॥

२९