पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः । ३७९

तां दंशमशकाकीर्णामास्तीर्णतृणविष्टराम् ।
कृताम्बुसेकां मुक्तेन नृपतिः प्राविशत्कुटीम् ।। १६६२ ॥
यद्विरा बहुमानोभूच्छ्रतया भूभुजामपि ।
स भूभृच्चाटुकारित्वं भीतो भिक्षाभुजोप्यगात् ।। १६६३ ॥
भिक्षांकस्योचितो ग्राम्यमनुदात्तं त्रपावहम् ।
आलापव्यवहाराभ्यां तस्य शृण्वन्स विव्यथे ॥ १६६४ ॥
स भिक्षाकः प्रयागेण विक्रयायाधरांशुकम् ।
निजं दत्त्वा विससृजे विपणि भोज्यसिद्धये ।। १६६५ ।।
कढुक्तिः कटुवागग्रे परोक्षं भेदभीतिकृत् ।
कुतापसो दौःस्थ्य हेतुर्नृपस्यारिर्यथाप्यभूत् ॥ १६६६ ।।
मध्याह्ने स्कन्धविन्यस्तभोज्यभाण्डकरण्डिका ।
तपस्विन्याप्यथानिन्ये तेन क्षुद्रतपस्विना ॥ १६६७ ।।
भृत्यभिक्षाकयोः पूर्व स्त्रिया अप्यथ पार्थिवः ।
स्वं वीक्ष्य गोचरीभूतं निराशो जीवितेभवत् ॥ १६६८ ॥
तेन प्रयागोपहृतं भोज्यं तदनुरोधतः ।
स्पृष्टमेव न भुक्तं तु तीव्रदुःखोल्बणात्मना ॥ १६६९ ॥
का वार्तेति प्रयागेण प्राङ्गणस्थेन पृष्टया |
तापस्याग्रस्थया व्यक्तमुक्तो भोजवधस्ततः ॥ १६७० ॥
मिथ्यैतदिति तेनाथ कथ्यमानोपि पार्थिवः ।
श्रुतिं तामङ्गशकुनं परीक्ष्याबुद्ध नान्यथा ॥ १६७१ ॥
नारोहति गिरं शत्रोरप्रियाख्यायिनोपि यत् ।
तस्य संववृते दुःखं निमग्नस्य तदापदि ॥ १६७२ ॥

१ भिक्षाकस्य वचो इति स्यात् । २ तपस्विन्यप्यथानिन्ये इत्युचितम् ।