पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
3१
प्रथमस्तरङ्गः ।


युधिष्ठिराभिधानोभूदथ राजा तदात्मजः 1
यः सृक्ष्माक्षितया लोकै: कथितोन्धयुधिष्ठिरः ॥ ३५० ॥
तेन क्रमागतं राज्यं सावधानेन शासता ।
अनुजग्मे मितं कालं पूर्वभूपालपद्धतिः ॥ ३५१ ॥
काले कियत्यपि ततो यात्यभाग्यवशादसौ ।
सिषेवे श्रीमदक्षीबो ।यत्किंचनविधयिताम् ॥ ३५२ ॥
नान्वग्रहीदनुग्रह्यन्न । संजग्राह धीमतः ।
न प्रवृत्तोपचाराणं प्रागिवासीत्प्रियंकरः ॥ ३५२३ ॥
दुर्विद्यपर्षदा साकं निर्विशेषं सभाजितैः ।
परिजह्ने स दुर्जातो जाततेजोवधैर्वुधैः॥ ३५४ ॥
सर्वत्र समदृष्टित्वं गुणोयं खलु योगिनः ।
अकीर्तिहेतुः स महान्दोषस्तु पृथिवीपतेः ॥ ३५५. ॥
नयद्भिर्गुणतां दोषान्दोषतां च गुणान्विटैः ।
स लुप्तप्रतिभश्चक्रे शनकैस्त्रीजितोपमः ॥ ३५६ ॥
वाङ्मर्मच्छेदिनी दीर्घं नर्म शश्वत्कथा विटैः ।
अनीश्वरोचिता तस्य क्रिडापि भयदाभवत्‌ ॥ ३५७ ॥
पुरो मिथ्यागुणग्राही परोक्षं दोषदर्शकः ।
असुस्थिरादरो भूभृत्सोभूद्द्वेष्योनुजीविनाम्॥ २३५८ ॥
मनागनवधानेन स्खलतस्तस्य भूपतेः ।
इत्थं राज्यस्थितिरगाद चिरेण विसूत्रताम्‌ ॥ ३५९ ॥
उपेक्षितस्य निर्द्रोहैरयतन्ताजितात्मनः ।
अथ लब्धबलास्तस्य नाशाय द्रोहिमन्न्त्रिणः ॥ ३६० ॥
प्रभोः संकोचिताज्ञैस्तैश्चरद्भिर्निरवग्रहम् ।
राज्यं जिहीर्षवो भूपाश्चक्रिरे भूम्यनन्तराः ॥ २३६१ ॥