पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
राजतरङ्गिणी

तदनुप्रणिताः सर्वे ते ते नानादिगाश्रयाः।
आसन्राज्यामिषं प्राप्तुं श्येना इव ससंभ्रमाः ॥ ३६२ ॥
अथोत्पन्नभयो राजा न शशाक निजस्थितिम्‌ ।
व्यवस्थापयितुं यन्न्रच्युतां कारूः शिलामिव ॥ ३६३ ॥
चिरक्षुण्णे क्षमाभर्तुस्तस्मिन्राज्ये विसंस्थुले ।
उपायोस्य स्थितेर्हेतुनैकः कश्चन प्रपथे ॥ ३६४ ॥
दृष्टदोपान्म्थितिं प्राप्तो हन्यादस्मानसंशयम् ।
विचिन्त्येति न सामास्य जगृहुर्निजमन्त्रिणः ॥ ३६५ ॥
अथ निरुरुधुस्ते संनद्धा बलैर्नृपमन्दिरं
व्यवहितजनाक्रन्दं भेरीरवैरतिभैरवैः।
मदकरिघटाकेतुच्छायानिर्द्धरविप्रभा
भवनवलभीः संतन्वन्तो दिवापि तमोवृताः ॥ ३६६ ॥
तैर्गन्तुं स्वभुवो निवारितरणैर्दत्तेवकाशो तत-
स्त्यक्तश्रीर्नगरान्तरात्स नृपतिस्तात्पर्यतो निर्ययौ ।
आजानेयरजोङ्कराजललनाप्रस्थानसंदर्शन-
क्षुभ्यत्पौरजनाश्रुलाजक्कणिकाकीर्णेन राजाध्वना ॥ २६७ ॥
राज्याच्युतस्य वहुशः परिवाररामाः
कोशादि तस्य रिपवो व्रजतोपजहुः ।
उर्वीरुहो विचलितस्य नगेन्द्रशृङ्गा-
द्वल्लीफलादि रभसादिव गण्डशैलाः ॥ २६८ ॥
रम्यैः शैलपथैर्व्रजञ्श्रमवशाच्छायां श्रितः शाखिना-
मासीनपचलायितेन सुमहदुःखं विसस्मार सः ।
दूरात्पामरपूत्कृतैः श्रुतिपथप्राप्तैः प्रवुद्धस्त्वभू
द्दष्टो निर्झरवारिभिः सह महच्छ्वभ्रे निमज्जन्निव ॥ २६९. ॥