उल्लसद्वरसंभोगवाञ्छा मद्यपदेवताः।
वीरालाभात्समन्विष्य कङ्कालं तमपाहरन्॥१०३॥
एकमेकं स्वमङ्ग च विनिधाय क्षणादथ।
कुतोप्यनीय पुंलक्ष्म पूर्णाङ्गं तं प्रचक्रिरे॥१०४॥
अथ पुर्यष्टकं भ्राम्यदनाक्रान्तान्यविग्रहम्।
योगेनाकृष्य योगिन्यस्तत्र संधिमतेर्न्यधुः॥१०५॥
ततः सुप्तोत्थित इव प्रत्तदिव्यविलेपनः।
समभुज्यत ताभिः स यथेच्छं चक्रनायकः॥१०६॥
ईशानस्तस्य देवीनां वितीर्णाङ्गाहृतिं पुनः।
क्षपायां क्षीयमाणायां चकितः पर्यशङ्कत॥१०७॥
नदंस्तद्रक्षया धीरः स च तत्स्थानमाययौ।
तच्च योगेश्वरीचक्रं क्षिप्रमन्तरधीयत॥१०८॥
अथाश्रूयत वाक्तासां मा भूदीशान भीस्तव।
नास्त्यङ्गहानिरस्माकं वृते चास्मिन्न वश्चना॥१०९॥
अस्मद्धरादिव्यवपुःसंधितः संधिमानसौ।
आर्य॑त्वादार्यराजश्च ख्यातो भुवि भविष्यति॥११९॥
ततो दिव्याम्बरः स्रग्वी दिव्यभूषणभूषितः।
ववन्दे संधिमान्प्रहः प्राप्तपूर्वस्मृतिर्गुरुम्॥१११॥
ईशानोपि तमालिङ्य स्वप्नेष्वपि सुदुर्लभम्।
भूमिकामाललम्भे कामिति को वक्तुमर्हति॥११२॥
असारं च विचित्रं च संसारं ध्यायतोर्मिथः।
विवेकविशदा तत्र प्रावर्तत तयोः कथा॥१९३॥
अथ वार्तां विदित्वेमां कुतोपि नगरौकसः।
सबालवृद्धाः सामात्यास्तमेवोद्देशमाययुः॥११४॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५२
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
द्वितियस्तरङ्गः