पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६.

राजतरङ्गिणी

फुल्लाज्ञषण्डरुद्धाशाः प्राप्य पुष्करिणीतटीः । लक्ष्मीसखः स खण्डेन्दुचूडध्यानपरोभवत्‌ ॥ १३९ ॥ नीलोत्पलवतीर्वापीरगस्त्योदयनिर्विषाः । अवगाह्य हरार्चाभिः शरदं निर्विवेश सः ॥ १४० ॥ सार्धं तपोधनैस्तैस्तैर्भजतो जागरोत्सवान्‌ । तस्याभूवन्भुवो भर्तुरमोघा माघरात्रयः ॥ १७१ ॥ अल्यभ्दुतं राज्यलाभमित्थं सफटखयन्कृती ।

पश्चारातं ्िवर्षोनामत्यक्रामत्स वत्सरान्‌ ॥ १४२ ॥ शामव्यसनिनस्तस्य राज्यकायोण्यपदयतः । तस्िन्काछे प्रङृतयो विरागं प्रतिपेदिरे ॥ १४३ ॥ अन्वैष्यत नरुपस्ताभिः कथिद्राज्याय शुश्रुवे । राजपुत्रो जिगीषुश्च श्रीमान्योधिष्टिरे कुठे ॥ १४४ ॥ जुगोप गोपादिदययाख्यं कदमीरेन्द्रजिगीषया । युधिष्ठिरप्रपौत्रं हि गान्धाराधिपतिस्तदा ॥ १४५ ॥ वसन्नपास्तसाच्राज्यः स तज तनयं कमात्‌ ।

अवाप टक्षणैदिव्यैरमोधं भेघवाहनम्‌ ॥ १७६ ॥

स युवा पितुरादेशद्वैष्णवान्वयजन्मनः।

राष्ट्र पराग्ज्योतिषेन्द्रस्य ययौ कन्यास्वयंवरे ॥ १७७ ॥ तञ तं वारुणं छत्रं छायया राजसंनिधौ ।

भेजे वरसख्रजा राजकन्यका चास्रतप्रभा ॥ १७८ ॥ तेन तस्य निमित्तेन चुद्धिमागामिनीं जनाः । अजानन्नम्बु वाहस्य पाञ्चालयेनेव वायुना ॥ १७९ ॥ राज्ञा हि नरकेणैतद्वरुणादुष्णवारणम्‌ । आनीतमकरोच्छायां न चिना चक्रवतिनम्‌ ॥ १५० ॥