अथ ग्राहयितुं भूपानाज्ञां हिंसानिवृत्तये ।
स दिग्जयाय निर्व्याजधर्मचर्यो विनिर्ययौ ॥ २७ ॥
अभूदभीतजनतावेक्षणश्र्लाध्यविकमः।
स्पृहणीयो जनस्यापि तदीयविजयोद्यमः ॥ २८ ॥
प्रभावविजितान्कृत्वा सोहिंसादीक्षितान्नृपान् ।
अर्णसां पत्युरभ्यर्णमवापावर्णवर्जितः ॥ २९ ॥
तत्र तालीवनच्छायासुखविश्रान्तसैनिकः ।
युक्तिं द्वीपान्तराकान्तौ क्षणमन्तर्व्यचिन्तयत् ॥ ३० ॥
अथ वेलावनोपान्तात्तेनार्ताकन्दितध्वनिः।
मेघवाहनराज्येपि हतोयमिति शुश्रुवे ॥ ३१९ ॥
तप्तायःशङ्कुनेवान्तर्व्रणितः स द्रुतं ततः ।
संचारिणातपत्रेण सत्रा तां वसुधामगात् ॥ ३२ ॥
अपश्यदथ केनापि चण्डिकायतनाग्रतः।
नरं शबरसेनान्या हन्यमानमधोमुखम् ॥ २३ ॥
अनात्मज्ञ धिगेतत्ते कुकर्मेति महीभुजा ।
तर्जितः स भयादेव शबरस्तं व्यजिज्ञपत् ॥ ३४ ॥
शिशुर्मुमूर्षुर्मे राजन्नयं रोगार्दितः सुतः।
कर्मैतद्दैवतैरुक्तमस्य श्रेयोलवावहम् ॥ २५ ॥
उपहारनिरोधेन सद्य एव विपद्यते ।
बन्धुवर्गमशेषं च विध्द्येतज्जीवजीवितम् ॥ ३६ ॥
अरण्यगहनाल्लब्धमनाथं देव रक्षसि ।
बहुलोकाश्रयं वालं कथमेतमुपेक्षसे ॥ ३७ ॥
अथाभ्यधान्महात्मा स वचोभिः शबरस्य तैः ।
वध्यस्य दृष्टिपातैश्च विक्लवैर्विवशीकृतः ॥ ३८ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६१
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
राजतरङ्गिणी