ततः प्रहर्तुकामस्य तस्य द्युकुसुमैः शिरः ।
करश्च दिव्यवपुषा रुद्धः केनाप्यजायत ।॥ ५१ ॥
अथापश्यत्तथाभूतः कंचिद्दिव्याकृतिं पुरः ।
न चण्डिकां न तं वध्यं न किरातं न दारकम् ॥ ५२॥
स तं दिव्यस्तदावादीन्मां त्वं सत्त्ववशीकृतम् ।
विद्धि मध्यमलोकेन्दो वरुणं करुणानिधे ॥ ५३ ॥
यदेतत्त्वामुपास्तेद्य च्छत्रं तन्मत्पुरात्पुरा ।
महाबलोहरद्भौमः पुराणश्वशुरस्तव ॥ ५४ ॥
रसातलैकतिलकं माहात्म्यवदिदं विना ।
उपद्रवाः प्राणहराः पौराणां नः पदे पदे ॥ ५५ ॥
तदिदं प्राप्तुकामेन त्वदौदार्ये परीक्षितुम् 1
कारुण्यमय मायेयं निरमायि मयेदृशी ॥ ५६ ॥
त्वदादिर्यो व्यधाज्जन्तून्व्यसून्वसुकुलात्मजः ।
प्रायश्चित्तममारेण चरसीव तदेनसः ॥ ५७ ॥
भयस्पृहाजनकयोर्धरणीधारणोचिते ।
शेषदेहे विषोद्गारफणारत्नौघयोरिव ॥ ५८ ॥
तमःप्रकाशावहयोस्तेजः कान्तदिगन्तरे ।
उषर्बुधे धूमजालज्वालापल्लवयोरिव ॥ ५९ ॥
क्लमाप्यायकियाभाजो रुद्धतेजस्विमण्डले ।
प्रावृद्वयोदच्छन्नेहि संतापासारयोरिव ॥ ६० ॥
द्वयोरालोकितं चित्रं जन्मैकस्मिन्महाकुले ।
तस्य त्रिकोटिहन्तुश्च तवाहिंसस्य च प्रभोः ॥ ६१ ॥
चक्कलकम् ॥
नम्रः सम्राडथैवं स वदतो यादसां प्रभोः ।
चकार पूजां स्तोेत्रेण च्छन्न्रेण च कृताञ्जलिः ॥ ६२ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६३
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
राजतरङ्गिणी