पृष्ठम्:रामकथामञ्जरी.pdf/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

ते चापि अनुज-व्याघ्राः वैदिकाध्ययने रताः। पितृ-शुश्रूषण-रता धनुर्वेदे च निष्ठिताः । सर्वे वेद-विदः शूराः सर्वे लोक-हिते रताः ॥१३॥ तेषामपि महातेजा रामः सत्य-पराक्रमः । इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ॥१४॥ राम-याचनाय विश्वामित्रागमनम् अथ राजा दशरथस्तेषां दार-क्रियां प्रति । चिन्तयामास धर्मात्मा सोपाध्यायः स-वान्धवः||१५ तस्य चिन्तयमानस्य मन्त्रि-मध्ये महात्मनः । अभ्यागच्छन् महातेजा विश्वामित्रो महामुनिः॥१६ अथ हृष्ट-मना. राजा विश्वामित्रं महामुनिम् । उवाच परभोदारो हृष्टस्तमणिपूजयन् ॥१७॥ "अद्य मे सफलं जन्म जीवितं च सुजीवितम् । व्रूहि यत्यार्थितं तुभ्यं कार्यमागमनम्पति । कर्ता चाहमशेषेण दैवतं हि भवान्सम" ||१८|| मनुजव्याघ्रा: ) पुरुषसिंहाः । ( वैदिकाध्ययने ) वेदसम्बन्ध्यध्ययने । ( तेषां) मिति निर्धारणे षष्ठी। ( इष्टः प्रियः । ( शशाङ्कः ) चन्द्रः। ( दारक्रियाम् ) विवाहम् । सोपायाध्यायः) 'सपुरोहितः। (व्रूहीत्यादि ) ( तुभ्यं ) ते ( षष्ट्यर्थे चतुर्थी ) । ( यत्कार्य्यं प्रति )यत्कार्य्यार्थम् आगमनं तन्मया प्रार्थितः सन् व्रूहि । ( दैवतम् ) इष्टदेवोऽतः पूज्य