पृष्ठम्:रामकथामञ्जरी.pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

तामापतन्तीं वेगेन विक्रान्तामशनिमिव । शरेणारसि विव्याध सा पपात समार च ॥३८॥ अथ तां रजनीसुष्य विश्वामित्रो महायशा । ददौ रामाय सुप्रीतो मन्त्र-ग्राममनुत्तमम् । अविवेश ततो दीक्षा नियतो नियतेन्द्रियः ॥३९॥ रामेण विश्वामित्रयज्ञरक्षणम् अथ तो देश-काल-जो राज-पुत्रावरिन्दमा । अनिद्रं षडहोरात्रं तपोवनमरक्षताम् ॥४०॥ अथ काले गते तस्मिन् पष्ठेऽहनि समागते । मारीचश्च सुबाहुश्च तथोरनुचराश्च ये। आगम्य भौम-संकाशा रुधिरोधमवासजन् ॥४॥ तावापतन्तौ सहसा दृष्ट्वा राजीव-लोचनः मानवं परमोडारमस्त्र परमभास्वरम् । चिक्षेप परम-क्रुद्धो मारीचोरसि राघवः ॥४२॥ स तेन परमास्त्रेण मानवेन समाहतः । L (विक्रान्ताम् ) प्रक्षिप्ताम् । ( उष्य, उषित्वा) आर्षमिदम् ।नियतेन्दियः ) निगृहीतेन्द्रियः । ( षडहोरात्रम् ) षड्दिवसपर्य॑न्तम् । भीम संकाशाः ) भयङ्कराः । ( रुधिरोधम् ) रक्तस्रजम् । ( अवासृजन् ) ववर्षुः । (परमादारम् ) परमश्रेष्ठम् ।