पृष्ठम्:रामकथामञ्जरी.pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

यत्परित्यक्तु-कामस्त्वं मामनन्य-परायणाम् ॥१०॥ स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीस् । शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥१०६॥ न पिता नात्मजो वात्मा न माता न सखी-जनः। इह प्रेत्य च नारीणां पतिरेको गतिस्सदा ॥१०७॥ यदि त्वं प्रस्थितो दुर्ग वनमध व राघवः । अग्रतस्ते गमिष्यामि मृदनन्ती कुश-कण्टकान् ॥१०॥ अहं गमिष्यामि वनं सुदुर्गमम्, मृगायुतं वानर-वारणैश्च । वने निवत्स्यामि यथा पितुर है, तवैव पादाबुपगृह्य संगता ॥१०९॥ पत्रं मूल फलं यत्तु अल्प वा यदि वा बहु । दास्यले स्वयमादृत्य तन्मेऽमृत-रसोपमम् ॥११०॥ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विनाः । इति जानन् परां कीर्तिं गच्छ राम मया सह ॥११॥ (असत्य-परायणाम्) केवलं त्वयि निविष्टचित्ताम् । (शैलूषः )जाया-जीवः (प्रेत्य) मरणानन्तरम् । गतिः) आश्रयः (मृगायुतम् ) मृगैरासमन्तात् युतम् । संमता तवेति शेषः । (सः)देशः । निरयः ) नरकः ।