पृष्ठम्:रामकथामञ्जरी.pdf/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

"जटाः कृत्वा गमिष्यामि न्यग्रोध-क्षीरमानय ॥१३॥ तत्क्षीरं राज-पुत्राय गुहः क्षिप्रमुपाहरत् । लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः ॥१३॥ सुमन्त्रनिवर्तनम् अनुज्ञाप्य सुमन्त्रञ्च सवलं चैव तं गुहम् । आस्थाय नावं रामस्तु चोदयामास नाविकान्॥१३२॥ तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः । प्रातिष्ठत सह भ्रात्रा वैदेह्या च परन्तपः ॥१३३॥ भरद्वाजाश्रमप्राप्तिः सीता-तृतीयः काकुत्स्था परिम्रान्तः सुखोचितः । भरद्वाजाश्रमे रम्ये तो रात्रिभवसत्सुखम् ॥१३४॥ रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम् 'मधु-मूल-फलोपेतं चित्रकूटं व्रजेतिह" ॥१३५।। चित्रकूटप्रापणम् ततस्तौ पाद-चारेण गच्छन्तौ सह सीतया । रम्यमाभेदतुः शैलं चित्रकूट मनोरमम् ॥१३६॥ सुमन्त्रस्यायोध्याप्राप्तिः- अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् । अयोध्यामेव नगरी प्रययौ गाढ-दुर्गनाः । अथ चा सौ महाराज कृताञ्जलिरुपस्थितः ॥१३७॥ {. उपाहर ) अनीतवान् । (सीता तृतीया): यस्य सः। व्युष्टायाम् ) व्यतीतायाम् । (आसेदतुः ) प्रापतुः । (गाढदुर्मनाः) अति खिन्नः