पृष्ठम्:रामकथामञ्जरी.pdf/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

" तस्य तद्वचनं श्रुत्वा प्रीति-संहष्ट-मानसाः । बभूवुर्हरिशार्दूलाः विक्रमाभ्युदयोन्मुखाः ॥३२॥ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः । विषेदुः सहसा सर्वे * कथं कार्य " मिति ब्रुवन् ।॥३३॥ अनेक-शत-साहस्त्री विषण्णां हरिवाहिनीम् । जाम्बवान् समुद्रीक्ष्यैवं हनूमन्तमथाब्रवीत् ॥३४॥ हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि । वयमद्य गत-प्राणा भवान्नस्त्रातुमर्हसि ॥३५॥ उत्तिष्ठ हरि-शार्दूल, लङ्घयस्व महार्णवम् आरूरोह नग-श्रेष्ठं महेन्द्रमरिमर्दनः ॥३६॥ हनुमतस्सुमु- स वेगवान् वेग-समाहितात्मा, द्रलङ्घनम् । हरि-प्रवीरः पर-वीर-हन्ता। मनः समाधाय महानुभावो, जगाम लङ्कां मनसा मनस्वी ॥३७॥ (विक्रमाभ्युदयोन्मुखा) निकम-सान्येऽस्युरे सीताप्रातिरूपे उन्मुख तत्पराः। ( दुष्पारम् ) तरितुम् अशक्यम् । (विदुः ) विवाद प्राश! (नः) अस्मान् । केगेन समाहितः ) दीकृतः (आमा) भने बस्य। (मनसंह कगाम) सरुमार।