पृष्ठम्:रामकथामञ्जरी.pdf/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

अवधूय च ताम्बुद्धिं बभूवावस्थितस्तदा । न रामेण वियुक्ता सा स्थप्तुमर्हति भामिनी ! न भोक्तुं नाप्यलङ्कर्तुं न पानमुपसेवितुम्" ॥५॥ हनूमतः निरीक्षमाणश्च तदा ताः स्त्रियः स महा-कपिः, सीतामार्गणम् । जगाम महतीं चिन्तां धर्म-साध्वस-शङ्कितः ॥६॥ पर-दारावरोधस्य प्रसुप्तस्य निरीक्षणम् । इदं खलु ममात्यर्थ धर्म-लोपं करिष्यति ॥७॥ तावदेतां पुरी लङ्कां विचिनोमि पुनः पुनः यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम् ॥८॥ अशोक वनिका चेयं दृश्यते सुमहाद्रुमा । इमामभिगमिष्यामि न हीयं विचिता मया ।।९।। संध्या-काल-मनाः श्यामा ध्रुवमेष्यति जानकी ( अवधूय । त्यक्त्वा ( बुद्धिम् ) सीतासम्भावनया प्रवृत्ता- मित्यर्थः । (भवस्थित ) स्थिरता-स्वभावे प्रतिष्ठितः धर्म- लेोपनिमित्तं यत् ( साध्वसम्) भयं तेन (शष्ठितः । 'दार' शब्दः स्त्री-सामास्यवाची, अवरोध' शब्दः स्व-धर्म-युक्त-कुल-सी चाची। ( संध्या ) दिनगन्याः सन्धि-रूपानुष्ठान. ( कालो ) यस्य कर्मः तषःमनः यस्याः