(६२) भट्टिकाव्ये जयमङ्गलासमेते- [तृतीयः- आतिथ्यमित्यादि – अतिथ्यर्थमातिथ्य मन्नपानादि ‘ अतिथेः ३५ । ४ । २६ ।' एभ्यो भरतादिजनेभ्यः इति संप्रदाने चतुर्थी । परिनिर्वि- चप्सोः निर्वस्तुमिच्छोर्दातुमिच्छोरित्यर्थः । निर्पूर्वी वपिने वर्तते । धाम- प्रथिन्नः । धाम्ना तेजसा प्रथिमा पृथुत्वं यस्य । तेजसो बहिर्निर्गतत्वात् शरी- रस्य पृथुत्वं जायते । तस्य भरद्वाजमुनेर्योगबलेन समाधिवलेन । 'युज समाधौ | 2 इत्यस्य रूपम् । कल्पद्रुमाः फेलु: फलिताः । भक्ष्यान्नपानादिकमित्यर्थः । 'तृफलभजत्रपश्च । ६ । ४ । १२२ । इत्येत्वमभ्यासलोपश्च । वासांसि च चस्त्राणि उदूहु: उद्वहन्ति स्म । यजादित्वात् संप्रसारणम् । म्रदिमान्वितानि मृदुत्वमुपगतानि | द्राघिमवन्ति दैर्ध्ययुक्तानि । पृथुमृदुदीर्घशब्देभ्यस्तस्य भाव इत्यर्थे 'पृथ्वादिभ्य इमनिच वा । ५ । १ । १२२ ।' | पृथुमृदुशब्दयो: 'र ऋतो हलादेः । ६ । ४ । १६१ ।। इति रादेशः । दीर्घशब्दस्य 'प्रियस्थिरस्फिरोरु- बहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थम्फत्र वैहिगर्वपित्रद्राघिवृन्दाः।६।४।१५७/* इति द्राघादेशः पश्चान्मतुप् ॥ ४२ ॥ आज्ञां प्रतीषुर्विनयादुपास्थुर्जगुः सरागं ननृतुः सहावम् । सविभ्रमं नेमुरुदारमूचुस्तिलोसमाऽऽद्या वनिताश्च तस्मिन् ॥४३॥ आज्ञा मिति - तस्मिस्तपोवने तिलोत्तमाद्या वनिता दिव्यस्त्रियः आगता आज्ञामादेशं मुनेः प्रतीषुः प्रतीष्टवत्यः । चेटीभवत्य इत्यर्थः । प्रतिपूर्व इपिर्य चर्तते तस्य लिटि रूपम् । विनयादुपास्थुः उपस्थिताः । पादप्रक्षालनादिदानेन उपस्थानं कृतवत्यः । उपपूर्वात्तिष्ठतेर्लुङिसिच् । 'गातिस्थाघुपाभूभ्य:२।४।७७७ इति सिचो लुक् । 'सिजभ्यस्तविंदिभ्यश्च । ३ । ४ । १०९ ।' इति झेर्जुस् । — उस्यपदान्तात् । ६ । १ । ९६ ।। इति पररूपम् । जगुः सरागं सरक्तं गीत- वत्यः । ननृतुः सहावं सशृङ्गारचेष्टं नर्तितवत्यः । सविभ्रमं नेमुः सविलासं प्रणताः । उदारमूचुः अग्राम्यमुक्तवः ॥ ४३ ॥ • वस्त्राऽन्नपानं शयनं च नाना कृत्वाऽवकाशे रुचिसम्प्रक्लृप्तम् | तान्प्रीतिमानाह मुनिस्ततः स्मनिवध्वमाध्वं पिबताऽत्त शेध्वम् ॥ ४४ ॥ वस्त्रेत्यादि -- ततो वनितोपस्थानानन्तरमवकाशे प्रदेशे यथाभिमते वस्त्रा- जपानम् । सर्वो द्वन्द्वो विभापैकवद्भवतीत्येकवद्भावः । शयनमित्यधिकरणे ल्युट् | नाना कृत्वा पृथक् कृत्वा । रुचिसंप्रक्लप्तम् | यस्य यावद्भिरुचितं तत्तथैव संपादितम् । 'कृपो रो लः |८|२||१८|' । प्रीतिमान्मुनिस्तान् भरता- १ ' इति ' इति शेषः । अन्यथा समाप्तपुनरात्तत्वं दोषः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१००
एतत् पृष्ठम् अपरिष्कृतम् अस्ति