सर्गः ] प्रकीर्णकाण्डम् । (७३) वधिं सन्ध्यामित्याह - प्रक्रान्तामायतीगवम् । आयत्यः आयान्त्यो भवन्ति 'यंस्मिन् काले गावः अस्मिन्नायतीगवम् आरब्धाम् ।" तिष्ठद्गुप्रभृतीनि च ||२|१२|१७|' इत्यव्ययीभावसमासत्वात्साधुः | नाव्ययीभावादतोऽम्०-१२॥४॥ ८३ ।' इत्यादिना सप्तम्या अम्भावः । आङ्पूर्वादिः शतरि ' इणो यण ।६।४ । ८१ ।' इति यणि ङोपि च रूपम् आयतीति । गावोऽपि गोचरात् गोष्ठमायान्ति दिवसस्यार्धनाडिकावशेषे सन्ध्यापि तदैव प्रवर्तते । किन्तमेवं जपन्नित्याह- आतिष्ठद्गु इति । तिष्ठन्ति गावो यस्मिन् काले दोहाय | गावो हि रात्रिप्रथम- यामस्य नाडिकायामतीतायां विश्रान्ताः सत्यः उत्थाप्य दुह्यन्ते । आतिष्ठदिति ‘आङ् मर्यादाभिविध्योः । २ । १ । १३ ।' इत्यव्ययीभावः । 'तिष्ठद्गु प्रभृतीनि च । २ । १ । १७ ।' इति चकारस्यानुक्तसमुच्चयांर्थत्वाद्व्ययीभाव एव । पुनः समासान्तरं न भवति । प्रातस्तरामिति । प्रातरित्यव्ययं प्रभातवाचि । प्रकर्ष- विवक्षायां तरपू । तदन्तात् ' किमेत्तिङव्ययवादाम्वद्रव्यप्रकर्षे । ५ | ४|११ ॥ इत्यनेन आम् अतिप्रभाते । पतत्रिभ्यः कुकुटादिभ्यः प्रथमं प्रबुद्ध उत्थितः । ‘पञ्चमी विभक्ते | २ | ३ | ४२ ।। इति पञ्चमी । रविर्मादित्यं प्रणमन् यदा चरति तदा प्रियम्भावुकतामगादिति पूर्वेण योज्यम् ॥ १३ ॥ १४ ॥ ददृशे पर्णशालायां राक्षस्याऽभीकयाऽथ सः । 6 भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ ॥ १५ ॥ ददृश इत्यादि - पर्णानां शालायां स्थितः स रामः राक्षस्या ददृशे दृष्टः । कीदृश्या । अभीकया कामुक्या । " अनुकाऽभिकाऽभीकः कमिता । ५ । २ । ७४ ।' इति निपातितः । दृशेः कर्मणि लिट् । अथ दर्शनानन्तरं भार्योढं ऊढभार्यमूढा भार्या यस्येति । आहिताग्न्यादिषु दर्शनात् निष्ठान्तस्य परनिपातः। अवज्ञाय अनादृत्य | सद्भार्यत्वात् । असकौ राक्षसी पापासौ । कुत्सायाम् ‘अव्ययसर्वनाम्नामकच प्राक् टेः ॥ ५॥ ३॥ ७७१।' सौमित्रये लक्ष्मणाय । 'श्लाघहुङ्- स्थाशपां ज्ञीप्स्यमानः इति । १ | ४ | ३४ ।' सम्प्रदानसंज्ञा | तस्थे स्वाभिप्रायं मैथुनायाविष्कृतवती । 'प्रकाशनस्थेयाख्ययोश्च । १ | ३ | २३ । ' इति । प्रकाशने तङ् ॥ १५ ॥ , अथ चतुर्भिः कलापकम् । दधाना वलिभं मध्यं कर्णजाहविलोचना । वाक्त्वचेनाऽतिसर्वेण चन्द्रलेखेव पक्षतौ ॥ १६ ॥ १ पर्णकुट्यामित्यर्थः । २ सुमिनाया अपत्यं पुमानिति सौमित्रिर्लक्ष्मणः । ‘अत इञ् ४।१।९५’ इतीज् ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१११
एतत् पृष्ठम् अपरिष्कृतम् अस्ति