सर्गः I प्रकीर्णकाण्डम् । (( ८३ ) नित्यः' इति । कुतस्त्यम् कुत एतदागतम् । 'अव्ययात् त्यप् |४|१२|१०४ | ‘अमेहक्कतसित्रेभ्य एव’ इति त्यप् । तेभ्यो नरेभ्यो द्रुह्यद्भ्योऽपि द्रोहं कुर्वाणेभ्योऽपि क्षमामहे । नैवेत्यर्थः । ‘क्रुधद्रुहेर्ष्याऽसूयाऽर्थानां यं प्रति कोपः ।१।४।३७|’ इति सम्प्रदानत्वम् । क्षमेर्गम्यमानो नञर्थस्तस्यासूयार्थत्वात् 'क्षमध्वं यदि वः क्षम- म्' इत्यस्य प्रतिवचनम् ॥ ३९ ॥ 1 तौ चतुर्दशसाहस्रबलौ निर्ययतुस्ततः । पारश्वधिकधानुष्कशाक्तीकमासिकाऽन्वितौ ॥ ४० ॥ तावित्यादि - ततो निगदनादुत्तरकालं निर्ययतुर्निर्गतवन्तौ । चतुर्दशसह- स्राणि परिमाणं यस्य बलस्य तदस्य परिमाणमित्यस्मिन्विषये 'शत- मानविंशतिक सहस्रवसनादण ५॥१॥२७॥' प्राग्वते: 'सङ्ख्यायाः संवत्सर सहयस्य च ।७।३।१५।' इत्युत्तरपदवृद्धिः । चतुर्दशसाहस्रं बलं ययोः तौ । तथा 'पारश्वधि- कधानुष्कशाक्तीकप्रासिकान्वितौ । परश्वधः प्रहरणमेषाम्' इति 'परश्वधात् उञ्च | ४|४|५८|' तथा धनु: प्रहरणमेषां शक्ति: प्रहरणमेषामिति 'शक्तियष्टथो- रीकक् । ४।४।५९।' प्रासः कुन्तः ग्रहरणमित्यौत्सर्गिकष्ठक् । तत्र धनुषष्ठक् । 'इसुसुक्तान्तात्कः |७|३|५१११ ततः सेनाङ्गत्वात्कृतंकवद्भावः । तेनान्विता- वनुगतौ ॥ ४० ॥ WE अथ सम्पततो भीमान् विशिखै रामलक्ष्मणौ । बहुमूर्ध्ना द्विमुश्च त्रिमूर्द्धाश्चाऽहतां मृधे ॥ ४१ ।। - अथेत्यादि — अथ एतस्मिन् प्रस्तावे रामलक्ष्मणौ मृधे संग्रामे विशिखैः शरै- रहतां हतवन्तौ । हन्तिः परस्मैपदी तस्माल्लङि तसस्ताम् | तस्य ङित्त्वे 'अनु - दात्तोपदेशवनतितनोत्यादी नामनुनासिकलोपो झलि ङिति |६||४|२७|' इति अनुनासिकलोपः । कान् राक्षसान् । विशेषणोपादानात् विशेष्यप्रतिपत्तिः । प्रकृ- तत्वाद्वा । सम्पततोऽभिपततः । बहुमून बहुशिरसः । तथा द्विमूर्धीस्त्रि मूर्धाश्च । 'द्वित्रिभ्यां ष मू: १५४|११५ इति समासान्तः षः । अत एव भीमान् भयानकान् । त्रिमूर्धाश्चेत्यत्र 'नश्छव्यप्रशान् | ८|३|७|' इति रुः । 'पूर्वस्य त्वनुनासिकः । 'विर्सजनीयस्य सः |८|३|३४||' इति सत्वम् ||११|| तैर्वृक्णरुग्णसम्भुग्नक्षुण्णाभन्नावपन्नकैः । निमग्नोद्विग्नसंहीणैः पत्रे दीनैश्च मेदिनी ॥ ४२ ॥ तैरित्यादि -तैः राक्षसैमंदिनी पत्रे पूरिता । 'प्रा पूरणे ।" इत्यत्मात्क- र्मणि लिट् । वृक्णैः छिन्नैः । रुग्णैः भनहस्तपादैः । सम्भुमैः वक्रीकृतदेहैः ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१२१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति