सर्गः ] प्रकीर्णकाण्डम् | ( १३३ ) आहूतवान् तथा आह्वास्तेत्यादि -- पुनः पुनरभिभवितुं शूरानाहास्त राक्षसानाह्वत । पूर्ववद्विकल्प: । 'स्पर्धायामाङः | १ | ३ | ३१ ।' इत्यात्मने- पदम् । कथमाहूतवानित्याह हे सीताद्रुहः सीताहिंसकाः शूरा राक्षसा वा एत आगच्छत । आपूर्वादिणो लोट् । संख्ये संग्रामे । राघवं प्रत्थर्क यत प्रत्यर्थिनं कुरुत । प्रत्यर्थिन्शब्दात्तत्करोतीत्यर्थे णिच । तदन्ताल्लोट: परस्मैपदम् । 'अर्थ याच्यायाम्' इत्यस्य तु स्वार्थिकण्यन्तस्य सर्वदाऽऽत्मनेप दित्वात् प्रत्यर्थयध्वमिति स्यात् ॥ २५ ॥ स्वपोषमपुषष्मान् या पक्षिमृगशावकाः । अद्युतच्चेन्दुना सार्धं तां प्रब्रूत गता यतः ॥ २६ ॥ स्वपोषमित्यादि — हे मृगपक्षिणां शावका: पोता: या सीता युष्मान् स्वपोषमपुषत् पुष्टवती । 'स्वे पुष: ३ । ४ । ४० ।' इति णमुल । 'यथा' विध्यनुप्रयोगश्च । ३।४ । ४ ।' । 'पुषादिद्युताद्यलदितः परस्मैपदेषु । ३ । १ । ५५ ।’ इत्यङ् । तां प्रब्रूत कथयत । यतो यत्र आद्यादित्वात्तसिः | गता सत्यधुतत् द्योतते स्म । पूर्ववद | इन्दुना सार्धम् । चन्द्रमसा तुल्यकान्तित्वात् ॥ २६ ॥ गिरिमन्वसृषद्रामो लिप्सुर्जनकसम्भवाम् | तस्मिन्नायोधनं वृत्तं लक्ष्मणायाशिषन्महत् ॥ २७ ॥ गिरिमित्यादि - - गिरिमन्वसृपत् लक्ष्यीकृत्य गतः । लादत्त्वादङ् । कि मथै लघुमिच्छु: 'सनिमीमाधुरभलभशकपतपदामच इस | ७ | ४ |५४ । इति इस, 'अत्र लोपोऽभ्यासस्य ७ १४ । ५८ ॥ इत्यभ्यासलोपः 'खरि च ।८ । ४ । ५५ ।" इति चर्ध्वम् । जनकसम्भवाम् | सम्भवत्यस्मादिति सम्भवः । 'ऋोरप् । ३ । ३ । ५७ ।” जनकः सम्भवो यस्यास्तम्माद्रा सम् भवो यस्यास्तां सीताम् । तस्मिन् गिरौ आयोधनं युद्धं महदतिशयत्वात् वृत्तं लक्ष्मणायाशिपत्कथितवान् । क्रियायोगे चतुर्थी । ‘सर्तिशाम्त्यर्तिभ्यश्च | ३ | १ | ५६ १ इत्यङ् । 'शास इदज्हलो: । ६ । ४ । ३४ । ' इतीत्वम् । 'शासिवसि | ८ |३|६० |' इत्यादिना षत्वम् ||२७॥ कथम कथयदित्याह-- १ 'मृधमास्कन्दनं सङ्ख्यम्' इत्यमरः । --
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१७१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति