पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (१३५) गृध्रत्येत्यादि-हे लक्ष्मण | इह प्रदेशे गृध्रस्य पक्षौ कृत्तौ छिन्नौ । अश्वतां शूनौ । पूर्ववदाङ ‘श्वयतरः |७|४|१८|' इति । वीक्षस्व नूनमवश्यं सीतां जिघत्सोरत्तुमिच्छोर्गृध्रस्य । अदे: 'लुङ् सनोस् |२|४||३७| निशाचरायं ध्वंसः पक्षच्छेद आपादि उत्पन्नः । कर्तरि लुङ् । 'चिण् ते पदः ||३|१|६०।१ इति च्लेश्चिणादेशः । तशब्दस्य 'चिणो लुक् |६|४|१०४ ॥ ३१ ॥ द्रोऽदीपि रघुव्याव्रो रक्तनेत्रोऽजनि क्षणात् । अबोधि दुःस्थं त्रैलोक्यं दीप्तैरापूरि भानुवत् ॥ ३२ ॥ क्रुद्ध इत्यादि- रघुव्याघ्रो रामः क्रुद्धोऽदीपि दीप्तवान् | क्षणाच्च रक्तनेत्रोऽजनि जातः । 'जनिवध्यो |७|३||३५|' इति न वृद्धि: । त्रैलोक्य निहन्मि यस्मिन् हन्यमाने सीताद्रुहोऽपि नश्यन्ति इत्यभिप्रायेण दुःस्थम- बोधि बुध्यते स्म । किंवा रामस्य द्वारा ह्रियन्ते तदान्येषु का कथा, इत दुःस्थं त्रैलोक्यमबोधि। दीप्तैस्तेजोभिर्हेतुभिरापूर वर्धते स्म । भानुवदादित्य- वत् । दीप्तैरिति भावे निष्ठा । सर्वत्र कर्तरि लुङ् । 'दीपजनबुधपूरिताय - प्यायिभ्योऽन्यतरस्याम् | ३ | १|६१ |' इति चिण् ॥ ३२ ॥ अताय्यस्योत्तमं सत्त्वमप्यायि कृतकृत्यवत् | उपाचायिष्ट सामर्थ्य तस्य संरम्भिणी महत् ॥ ३३ ॥ अतायीत्यादि --- अस्य रामस्य उत्तमं सत्त्वमभिप्रायः शोकव्यसनयोर विका- रित्वात् अतायि सन्ततं नान्तरा विच्छिद्यते स्मेत्यर्थः । अप्यायि बृंहितम् । कृतकृत्यवत् समाप्तक्रियवत् । हस्ततलस्थं शत्रुवधं मन्यमानस्यास्य रामस्ये- त्यर्थः । उभयत्रापि पूर्ववच्चिण | तस्य रामस्य संरम्भिणे: शत्रुविषये क्षुभि - तचित्तस्य सामर्थ्य बलं महदुपाचायिष्ट स्वयमेवोपचीयते स्म । वर्धते स्मेत्यर्थः । चिनोतेः ‘अचः कर्मकर्तरि |३|१|६२|| इति वा चिण् । पक्षे चिण्वर्दिट् ॥ ३३॥ अदोहीव विषादोऽस्य समरुद्धेद विक्रमः । समभावि च कोपेन न्यश्वसीच्चाऽऽयतं मुहुः ॥ ३४ ॥ अदोहीत्यादि ----अस्य रामस्य विषादः प्रागुत्पन्नोऽदोहीव स्वयं क्षरित इव | अथवा अदोहीव प्रपूर्यते स्मेव । 'दुहश्च |३|१|६३|| इति णिच् । विक्रमः पुरुषकारः समरुद्धेव स्वयं संरुध्यते स्म इव | 'कर्मवत् कर्म्मणा तुल्य- - १ रघुश्रेष्ठ इत्यर्थः । 'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशालनागाद्या: पुंसि श्रेष्ठार्थगोचराः ॥' इत्यमरः | २ 'आवेशारोपसंरम्भाः' इति त्रिकाण्डशेषः । ३ 'विक्रमस्त्वतिशक्तिता ।' इत्यमरः ।