पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३८ ) अट्टिकाव्ये जयमङ्गलासमेते- [ षष्ठः- संग्रामे युद्धं दातु समर्थ: ? अपि तु न कोऽपीत्थर्थः यत्र युक्तं तत्प्रतिवि- धीयताम्' इति । भवनं भूः ।' सम्पदादिभ्यश्च' इति किप् | सुमित्रायां भूर्यस्य । ऐक्षेतां रामलक्ष्मणौ दृष्टवन्तौ । 'ईश दर्शनाङ्कनयोः' इत्यस्य लङि रूपम् । पक्षिणं गिरिकल्पं महाप्रमाणत्वात् । आश्रमादारात् समीपे । 'दूरान्तिकार्यैः षष्ठ्यन्यतरस्याम् | २ | ३ | ३४ ।' इति पञ्चमी ॥ ४० ॥ I तं सीताघातिन मत्वा हन्तुं रामोऽभ्यधावत | मा वधिष्ठा जटायुं मां सीतां रामाऽहमैक्षिषि ॥ ४१ ॥ तमित्यादितं सीताघांतिनं सीता हताऽनेनेति मत्वा रामो हनिष्यामी- त्यभ्यधावत | 'वावु गति- शुद्धयोः ।' इत्यस्माल्लाङ स्वरितेत्त्वादात्मनेपदम् । तं हन्तुमुद्यतं रामं जटायुराह मा वविष्ठा इति । 'हे राम मां जटायुं मां वधि- ष्ठा मा वधीः ।' 'बध बन्धने' इत्यस्मादनेकार्थत्वादात्मनेपदिनः सेटो लुङि रूपं, न हन्तेः तस्य परस्मैपदित्वात् । सस्यप्याङि 'आङो यमनः ||१|३|२८| इत्यात्मनेपदं न भवति, तत्राकर्मकादित्यनुवृत्तेः । स्वनामपरिकीर्तनं तव पितु- रहं मखेति ख्यापनार्थम् । सीतामैक्षिीप दृष्टवानहम् | लुङुत्तमैकवचने रूपम् । अतो मां मा वधिष्ठाः ॥ ४१ ॥ अथ सार्धेनान्वयः - उपास्थितैवमुक्ते तं सखायं राघवः पितुः । पमच्छ जानकीवार्ता संग्रामं च पतन्त्रिणम् | ततो रावणमाख्याय द्विषन्तं पततां वरः ॥ ४२ ॥ उपास्थितेत्यादि--पक्षिणवमुक्ते सति राघवस्तं व्रणभङ्गाद्यनुष्ठानेन उपा- स्थित परिचरितवान् । सङ्गतकरणे आत्मनेपदम् । स्थाध्वोरिच्च । १ । २ । १७ ।' इतीत्वम् । 'हस्वादङ्गात् । ८ । २ । २७ ।' इति सिचो लोपः । पितुः सखायमिति सखिशब्दस्य द्वितीयैकवचने रूपम् । 'सख्युर सम्बुद्धौ । ७ । १ ।९२। इति णित्वाद् वृद्धिरायादेशः । पप्रच्छ पृष्टवान् तं पक्षिणं जटायुम् । किं जानकीवार्ता संग्रामं च । तत उपस्थानानन्तरं रावणं द्विषन्तं शत्रुम् 'द्विषो- १ 'आराद् दूरसमीपयोः' इत्यमरः । २ सतिाहन्तारामित्यर्थः । ३ मित्रम् | ' अथ मित्रं सखा सुहृत्' इत्यमरः ।