सर्मः ] अधिकारणकाण्डम् । ( १६९) अग्निचिदित्यादि--कस्मात्त्वया पिता नापेक्षितः नानुवृत्तः । येनैवं कृतवानसीति । कीदृशः अग्निचित् आहिताग्निः । अग्निं चितवानिति ‘अग्नौ चेः । ३ । २ । ९१ ।' इति क्विप् । सोमसुत् सोमं सुतवान् सोमयाजी 'सोमे सुञः । ३ । २ । ९० ।' इति क्किए । अनलेषु अग्निषु इष्टवान् । रथच- क्रचिदादिषु रथचक्रवच्चीयत इति 'कर्मण्यम्याख्यायाम् | ३ | २ | ९२ ।' इति क्विप् । आदिशब्दाच्छथेनचिदादिप्रहणम् । अन्यथा हि तदाकार इष्ट- काचय इत्युच्यते तद्वारेणाग्निरपि ।। १२८ ।। मांसविक्रयिणः कर्म व्याधस्थापि विगर्हितम् । मां नता भवताऽकारि निःशङ्कं पापटश्वनः ॥ १२९ ॥ मांसेत्यादि--मांसविक्रयिणः कुत्सितकर्मकारिणो व्याघस्यापि विगर्हितं निन्दितम् । ‘कर्मणीनिर्विक्रियः । ३ । २ । ९३ ।' इति इनिः । तत्र ' कुत्सित- ग्रहणं कर्तव्यम्' इत्युक्तम् । निकृष्टकर्मकरणेनेति यद्भवता पापदृश्वना पापं दृष्टवता । 'दृशे: कनिप् | ३ | २ | ९४ |' 'न संयोगाद्वमन्तात् । ६ । ४१३७ ।' इति अल्लोपप्रतिषेधः। कर्म अकारि कृतम् । कर्मणि लुङ् । निःशङ्कं शङ्कां त्वक्त्वा । किं कुर्वता मां नतामारयता । हन्तेः शतरि 'गमहनजनखनघसां लोपः कित्यनङि । ६।४।९८ ।। इत्युपघालोपः । ‘हो हन्तेणिन्नेषु । ७।३ । ५४ ।' इति कुत्वम् ॥ १२९ ॥ D बुद्धि पूर्व ध्रुवन्न त्वा राजकृत्वा पिता खलम् | सहयुध्वानमन्येन योऽहिनो मामनागसम् ॥ १३० ॥ बुद्धिपूर्वमित्यादि---स्वत्पिता त्वां खलम् असाधुचरितं 'ध्रु गतिस्थैर्ययोः' इति तुदादौ पठचते । तस्य गतौ ज्ञानायें शतीर रूपम् । यन्न राजकृत्वा । 'राजनि युधि कृञः | ३ | २ | ९५ ।' इति क्वनिप् । तत्तस्य बुद्धिपूर्वम् । ध्रुवमवश्यं तस्येति व्याख्ने प्रयोगे कर्मणि षष्ठया भवितव्यम् । यस्त्वं मां वालिनं वानरमनागसमपापमन्येन सह- युध्वानम् अन्येन सुप्रीवेण सह योद्धुं प्रवृत्तम् । 'सहे च । ३ ।२।९६ ।' इति क्वनिप्। अहिनः हिंसितवान् । हिंसेलेङि मध्यमपुरुषैकवचने श्रमि श्नान्न- लोपे हल्ङयादिलोपे रुत्वे च रूपम् ॥ १३० ॥ मांसाथ हत इति चेदाह---- १ नागोऽपराधो यस्येति तम् । 'आगोऽपराधो मन्तुश्च' इत्यमरः । ध्र्वन् गच्छन् वर्तमानस्य
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२०७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति