पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७४) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तमः - । ३ । ४ । ५८ ।' इति णमुल् । समन्तात्सर्वतः विराजन् शोभमानः । अत्र परस्मैपदसंज्ञकः शतृप्रत्ययः । किं कृत्वा रघुवृषभयो रामलक्ष्मणयोरित्यर्थः। रघुषु रघुवंश्येषु वृषभौ श्रेष्ठौ तयोः | अन्वग्भावं अनुकूलो भूत्वा । अन्व- क्पूर्वाद्भवतेः ‘अन्वच्यानुलोम्ये | ३ | ४ । ६४ ।' इति णमुल । तदनुकूलव- र्तित्वाद्विरःजन् । कदा न्यविशत । अभ्यर्णे निकडे | अम्भःपतनसमये प्रावृषी- त्यर्थः । पर्णलीभूतसानुं पर्णानि सन्ति येषामिति 'सिध्मादिभ्यश्च । ५ । २ । । ९७ ।' इति लच् । तदन्ताद्भूततद्भावे च्विः । पर्णलीभूताः सानय एकदेशा यस्याद्रेः । मधुक्षीबा मधुमत्ता गुञ्जन्तो द्विरेफा यत्र । क्षीब इति 'अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः । ८ । २ । ५५ ।' इति निपातितः । 'क्षीवृ मदे ।' इत्यस्मात् क्तप्रत्ययस्य लोप इडभावश्च निपात्यते । गुञ्जेर्लट् । क्वचित् प्रथमासमानाधिकरणेऽपि शतृप्रत्ययः || १४३ ॥ इति सोपपदकृतः । इति श्रीजयमङ्गलसूरिविरचितया जयमङ्गलाख्यया व्याख्यया समलंकृते श्रीभट्टिप्रणीते रामचरितकाव्ये द्वितीयेऽधिकारकाण्डे लक्षणरूपे प्रथम: परिच्छेदः, लक्ष्यरूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गश्च । सप्तमः सर्गः । इतस्ताच्छीलिकं कृतमधिकृत्योच्य । ताच्छीलिकमित्यपलक्षणम् । तद्धर्मतत्साधुकारिष्वपि द्रष्टव्यम् । यतः 'आक्केस्तच्छील-तद्धर्म-तत्साधुकारिषु ३ | २ | १३४ |' इति तत्राधिक्रियते -- ततः कर्ता वनाssकम्पं व वर्षाप्रभञ्जनः । नभःपूरपितारश्च समुन्नेमुः पयोधराः ॥ १ ॥ तत इत्यादि--ततः प्रवेशानन्तरं वर्षाप्रभञ्जनः प्रावृड्डातो ववौ वाति स्म । ‘वा गतिगन्धनयोः’ इति । कर्ता वनाकम्पं साधु कुर्वन् । 'तृन् | ३ | २ | १९३५ इति तृन् । ‘न लोकाव्ययनिष्ठाखलनाम् ||२|३|६९ | इति षष्ठीप्रतिषेधः । पयोधरा मेघाश्च समुन्नेमुः समुन्नताः । कीदृशा नभःपूरयित्तारः । तृन् ॥ १ ॥ १ अत्र मन्दाक्रान्ता छन्दः, 'मन्दाक्रान्ता जलधिषडगेम्म नौ ताद् गुरू चेत्' इति तल्लक्षणात् ।