सर्गः ] अधिकारकाण्डम् । एष शोकच्छिदो वीरान्प्रभो सम्प्रति वानरान् । धराशैलसमुद्राणामन्तगान् महिणोम्यहम् ॥ २७ ॥ ( १८३ ) a एष इत्यादि - - हे प्रभो ! एषोऽहं सम्प्रति वानरान् प्रहिणोमि प्रस्थाप- यामि । कीदृशान् शोकच्छिदः शोकापनोदनशीलान् । 'अन्येभ्योऽपि दृश्यते' इति क्विप् । वीरान् शूरान् | धराशैलसमुद्राणाम् अन्तं गच्छन्ति ये तानन्तगान् । 'अन्तात्यन्ताध्वदूर पारसर्वानन्तेषु डः | ३|२|४|' इति डः | धरा पृथ्वी । 'धरासमुद्रशैलानाम्' इति पाठान्तरम् । अत्र 'बहुवनियमः । इति पूर्वनिपातः । यथा वीणाशङ्खदुन्दुभयः ॥ २७ ॥ इति ताच्छीलिककृतः ।। इतो विशेषाधिकाराभावात् निर्विशेषकृतो दशयन्नाह -- राघवस्य ततः कार्य कारुर्वानरपुङ्गवः । सर्ववानरसेनानामा वागमनमादिशत् ॥ २८ ॥ राघवस्येत्यादि--- ततोऽभिधानानन्तरं वानरपुङ्गेव: सुप्रीवः सर्ववानर- सेनानाभाशु शीघ्रमागमनमादिशत् आदिष्टवान् । पुमांश्चासौ गौश्चेति । 'गोरतद्धितलुकि |५|४|९२ | इति समासान्तष्टच् । व्युत्पत्तिमात्रमेतत् । पुङ्गवशब्दस्तु प्रधानमाचष्टे । कारुः करोतीति 'उणादयो बहुलम् |३।३।१।१ इत्यौणादिकः । 'कृवापाजिमिस्वदिसाध्यशूभ्य उण्' इत्युण् । एवमाशु । कस्य कर्तेत्याह - राघवस्य कार्यम् ॥ २८ ॥ - वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताः । कारका मित्रकार्याणि सीतालाभाय सोऽब्रवीत् ॥ २९ ॥ वयमित्यादि — आगमनमादिश्य सुग्रीवोऽब्रवीत् उक्तवान् । वयमद्यैव गच्छाम इति । रामं द्रष्टुं रामं द्रक्ष्याम इति । त्वरान्विताः त्वरिता इत्यर्थः । कीदृशा वयम् । सीतालाभाय सीतां प्राप्स्याम इति । कारकाः कर्तारः मित्रकार्याणि रावणवधादेः कार्यस्य | भविष्याम इति शेषः । गच्छाम इतिक्रिया | तस्यां क्रियायां क्रियार्थायाभुपपदे तुमुन्ण्वुलौ भविष्यति काले स्याताम् | मित्रकार्याणीति । 'अकेनोर्भविष्यदाधमर्ण्ययोः |२|३|७०।' इति षष्ठीप्रतिषेधे द्वितीयैव स्यात् । सीतालाभायेति 'भाववचनाच |३|३|११|' इति क्रियायां क्रियार्थायामुपपदे भविष्यति घञ् । 'तुमर्थाच्च भाववचनात् २|३||१५|' इति चतुर्थी |॥ २९ ॥ १ वानरेषु पुङ्गवः श्रेष्ठ इत्यर्थः । २ आज्ञापितवानिति भावः । ३ रामस्य सीताहर्तृस्थानान्वेषणरूपम् ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२२१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति