(२०४) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तमः - - लङ्कामित्यादि – यां पुरीं नाम्ना लङ्कां सुरस्त्रियो ददृशुः दृष्टवत्यः । 'असं योगाल्लिट् कित् |१|२|५|' इति कित्त्वम् । तां यातेति वक्ष्यमाणेन सम्बन्धः । गिरः सुवेलनाम्नः पर्वतस्य मूर्ध्नि शिखरे स्थितां राक्षसेन्द्रेण पालितामिति दुर्गमत्वमाख्यातम् । शक्रं निर्जित्य सुरस्त्रिय आनीता इति च रावणस्य माहात्म्यम् ॥ ९४ ।। बभूव याsधिशैलेन्द्रं मृदित्वेवेन्द्रगोचरम् । कुषित्वा जगतां सारं सैका शङ्के कृता भुवि । ९५ ।। - बभूवेत्यादि — अधिशैलेन्द्रं शैलेन्द्रस्य सुमेरोरुपरि । 'अव्ययं विभक्तिसमीप- २|१|६|' इत्यादिना सप्तम्यर्थेऽव्ययीभावः । इन्द्रगोचरमिन्द्रनिलयममरावत्याख्यं मृदित्ववे तिरस्कृत्येव बभूव । 'इन्धिभवतिभ्यां च ||१|२|६|| इति कित्त्वम् । जगतां सारं कुषित्वा निष्कुष्य | सैका भुवि कृता निर्मितेत्यहं शङ्के । तां यात । मृदित्वा कुषित्वंति 'न क्त्वा सेट् | १ |२|१८|' इति कित्त्वप्रतिषेधे प्राप्ते ‘मृडमृद्गुधकुषक्लिशवदवसः क्त्वा | १|२|७|' इति कित्त्वम् ॥ १५ ॥ अमृडित्वा सहस्राक्षं क्लिशित्वा कौशलैनिंजैः । उदित्वालं चिरं यत्नात्सैका धात्रा विनिर्मिता ॥ ९६ ॥ अमृडित्वेत्यादि--सहस्राक्षमिन्द्र ममृडित्वा असुखिनं कृत्वा । निज: आत्मीयैः कौशलैश्चातुर्यैः चिरं क्लिशित्वा प्रयत्नं कृत्वा । उदित्वा अभिधायालं पर्याप्तमेवं करिष्यामीति । यत्नात् महता प्रयासेन । सैका धात्रा विनिर्मिता । पूर्ववत्कित्त्वम् ॥ ९६ ॥ मुषित्वा धनदं पापो यां गृहीत्वावसद्दिषन् । तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम् ॥ ९७ ॥ मुषित्वेत्यादि-मुपित्वा धनंदं वैश्रवणं तस्मात्पुरं पुष्पकं च विमानमपहृतम् । पापः पापाचरणात् यां पुरीं गृहीत्वा अवसत् उषितः । द्विषन् शत्रुः । शक्रेण रुदित्वेवोपेक्षितामवधीरिताम् । 'रुदविदमुष हिस्वपिप्रच्छः संश्च । १ । २।८।' इति कित्वम् । तत्र चकारेण क्त्वेत्यनुवर्तते ॥ ९७ ॥ विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः । उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः ॥ ९८ ॥ १ 'मनुष्यधर्मा धनदो राजराजो धनाधिपः ।' इत्यमरः । अत्रोत्प्रेक्षाऽलङ्कारः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२४२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति