सर्गः ] अधिकारकाण्डम् | (२२५ ) उपेत्यादि - तं रावणं पश्यन् वानरः चिकर्षितात्कर्तुमिष्टात् सीतान्वे- षणादुपारंसीत् निवृत्तः । उपाच्चत्यधिकृत्य 'विभाषाकर्मकात् |१|३|८५११ इति लुङ: परस्मैपदम् । तस्य मेरोरिव रम्यत्वात् तदाह भेरुमिव । श्वस नोर्मिभिः वातसमूहैः । आधूतकाननं प्रचलितनं मेरुम् । तथा श्वसनो- मिभिः श्वसितकल्लोलैः आधूतानि कानि शिरांस्थाननानि च यस्येति ॥५४ ।। दृष्टा दयितया साकं रहीभूतं दशाननम् । नाऽत्र सीतैत्युपारंस्त दुर्मना वायुसम्भवः ॥ ५५ ॥ दृष्ट्वेत्यादि-रहीभूतं विजनस्थं दशाननम् । 'अरुर्मनश्चक्षुश्चेतोरहोरजसां लोप |५|४||५१ | इति च्वौ सलोपः । दयितया साकं दृष्ट्वा नात्र सीतेति कृत्वा -उपारंगत विमना निवर्तते स्म । 'विभाषाऽकर्मकात् | १|३|८५|' इति तङ । वायुसंभवो वायोः सम्भवो यस्य स हनुमान् ॥ ५५ ॥ ततः प्राकारमारोहत् क्षपाटानविबोधयन् । नाइयोधयत् समर्थोऽपि सीतादर्शनलालसः ॥ ५६ ॥ न तत इत्यादि-तत उत्तरकालं प्राकारमारोहत् आरूढवान् । क्षपाटान् राक्ष सान् अविबोधयन् अचेतयन्। ‘णिचश्च । १।३।७४।' इत्यात्मनेपदे प्राप्ते ‘बुधयुधनश जनेब्रुद्रुस्रुभ्यो णेः |१|३|८६ | इति लट: परस्मैपदम् । बुधेरणौ सकर्मकाय चित्तवत्कर्तृकत्वात् हनूमतश्चित्तवत्वात् । तत्र ह्यकर्मका ये तेषामाचत्त- वत्कर्तृत्वार्थमुपादानमित्युक्तम् । तान्नायोधयत् समर्थोऽपि न संग्रामितवान् ॥ यतः सीतादर्शनलालसः लम्पट: । 'अणावकर्मकाञ्चित्तवत्कर्त्तृकात् |११३१८८१५ इत्यनेन उभयत्रापि लङ: परस्मैपदम् । युधेरेकस्याचित्तवत्कर्तृत्वात् ॥५६॥ अध्यासीद्राघवस्याऽहं नाशयेयं कथं शुचम् । वैदेह्या जनयेयं वा कथमानन्दमुत्तमम् ॥ ५७ ॥ अध्यासीदित्यादि -- राघवस्याहं कथं केन प्रकारेण शुचं शोकं नाशयेयम् | प्रशमययम्, कथं वा वैदेह्या: सीताया आनन्दं जनयेयमिति हनुमानध्यासीत् चिन्तितवान् । 'ध्यै चिन्तायाम्' इत्यस्य लाङ रूपम् । नशिजन्योरकर्मकत्वात् 'अणावकर्मकाञ्चित्तवत्कर्तृकात् ११३१८८|' इत्यनेन लिङः परस्मैपदम्, न तु 'बुध- युधनशजनेङ्प्र॒द्रुस्रुभ्यो णेः ११३१८६|' इत्यनेन परमैपदम् । जनीतॄष्क्नसुरजो- ऽमन्ताश्च' इति जनेमित्संज्ञायां ह्रस्वत्वम् ॥ ५७ ॥ १ कपिताशोकोद्यानमिति भावः । 'गहनं काननं वनम् ।' इत्यमरः । १५
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२६३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति