पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- किमर्थमेवमाहेत्याह— अद्य सीता मया दृष्टा सूर्य चन्द्रमसा सह । स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना ॥ १०० ॥ अद्येत्यादि---स्वप्ने मया अद्य सीता दृष्टा । कर्तरि तृतीया । सूर्य स्पृशन्ती चन्द्रमसा सह । सहयोगे 'सहयुक्तेऽप्रधाने २|३|१९| इति तृतीया | सूर्याचन्द्र- मसाविति रामलक्ष्मणाविति भावः । मध्येन तनुः तन्वी । 'इत्थंभूतलक्षणे । २।३ ।२१। ' इति तृतीया । 'वोतो' गुणवचनात् ||४|१|४४|' इति ङीबभावपक्षे रूपम् । श्यामा वर्णेन | सुलोचना शोभननेत्रा || १०० ।। तास्तया तर्जिताः सर्वा मुखैभमा यथागतम् । (२४०) [ अष्टमः- ययुः सुषुप्सवस्तल्पं भीमैर्वचनकर्मभिः ॥ १०१ ॥ ता इत्यादि —ता राक्षस्यस्तया त्रिजटया तर्जिता भसिताः । सुषुप्सवः स्वप्तुमिच्छवस्तçपं शयनीयं ययुर्गताः । यथागतं यतो यतस्तल्पादुत्थायागताः 'यथाऽसादृश्ये । २ । । ७।’ इति वीप्सायामव्ययीभावः मुखैभमा रौद्राः मुखानां विकृतत्वात् । 'येनाङ्गविकारः |२|३|२०|| इति तृतीया । भीमैर्वचनकर्मभिः उपलक्षिताः । इत्थंभूते तृतीया ॥ १०१ ॥ गतासु तासु मैथिल्या संज्ञानानोऽनिलात्मजः । आयातेन दशाऽऽस्यस्य संस्थितोऽन्तर्हितश्चिरम् ॥ १०२ ॥ गतास्वित्यादि — तासु राक्षसीषु गतासु । अनिलात्मजो हनूमान् 'राम- संकथां प्रास्तावीत' इति वक्ष्यमाणेन संबन्धः । मैथिल्यो संजानान: इयं सत्यवगच्छन् । 'संज्ञोऽन्यतरस्यां कर्म्माणि |२|३|२१|' इति कर्मणि तृतीया । 'संप्रतिभ्यामनाया ||१|| ३ | ४६ | इति तङ् | दशास्यस्यायातेनागमनेन हेतुना चिरमन्तर्हितो निलीनः स्थितः । 'हेतौ |२|३|२३|' इति तृतीया || १०२ ।। ऋणाइद्ध इवोन्मुक्तो वियोगेन ऋतुद्विषः । - हेतोबंधस्य मैथिल्याः प्रास्तावीद्रामसंकथाम् ॥ १०३ ॥ ॠणादित्यादि — ऋणाद्धेतोर्बद्धः इब्रोन्मुक्तो यथा स्थानान्तरं गतवान् । 'अकर्तणे पञ्चमी | २|३|२४|' इति पञ्चमी । ऋणस्याकर्तृहेतुत्वात् । ऋणेन बन्धित इंवेति नोक्तम् । अप्रयोजनकर्तृत्वाहणस्य | उन्मुक्त: ऋतुद्विषो रावणस्य वियोगेन विश्लेषेण । 'विभाषां गुणेऽस्त्रियाम् | २ | ३ | २५ ।' इति पक्षे तृती- १ 'तल्पं शय्याट्टदारेषु' इत्यमरः | २ मिथिलेशनन्दिन्या सीतयेत्यर्थः ।