( २५८ ) भट्टिकाव्ये जयमङ्गलासमेते- [ नवमः- नोत्तमे सङ्ग्रामवरे । एवमुक्तः सन् स मायानां सोता जनकः कपेर्द्युतिं तेजो विधवितुमपनेतुमगात् गतः । सोता धवितुमिति 'स्वरतिसूतिसूयतिधूनूदितो वा ।७।२ । ४४।' इति विभाषेट् ॥ २८ ॥ विगाढारं वनस्पाइसौ शत्रूणां गाहिता कपिः । । अक्षं रधितुमारेभे रद्धा लङ्कानिवासिनाम् ॥ २९ ॥ विगाढारमित्यादि-- असौ कपिः वनस्य विगाढा अवलोढयिता ! अरं शीघ्रम् | शत्रूणां गाहिता विनाशयिता | कर्मणि षष्ठी । ऊदित्त्वाद्विभाषेट् । 'स्वरतिसूतिसूयतिधूदितो वा ७७२१४४|' इतीट् । अक्षं रधितुं हिंसितु- मारेभे प्रवृत्तः । लङ्कानिवासिनां रक्षसां रद्धा हिंसिता । 'रधादिभ्यश्च ।७।२।४५|' इति विभाषेट् ।। २९ ।। निष्कोपितव्यान्निष्कोष्टुं प्राणान्दश मुखाऽऽत्मजात् । आदाय परिघं तस्थौ वनान्निष्कुषितद्रुमः ॥ ३० ॥ निष्कोषितव्यानित्यादि-- दशमुखात्मजादक्षत् प्राणान्निष्कोषितव्यान् अपनेतव्यान् अपनयान् निष्कोष्टम अपनेष्यामीति परिघमादाय तस्थौ । निरः कुषः ।७।२।४६।' इति विभाषेट् । निष्कुषितद्रुमः वनादपनीतवृक्षः। ‘इण् निष्ठायाम् |७|२|४७ | इती ॥ ३० ॥ एष्टारमेषिता संख्ये सोढारं सहिता भृशम् ॥ रेष्टारं रेषितुं व्यास्यद्रोष्टाक्षः शस्त्रसंहतीः ॥ ३१ ॥ एष्टारमित्यादि--कपिं युद्धस्यैष्टारम् एषिता एषणशीलोऽक्षः । ताच्छील्ये तृन् । 'न लोकाव्ययनिष्ठाखलर्थतनाम् |२|३|६९|' इति षष्ठीप्रतिषेधः । सोढारं प्रहरणस्य सहितारं सहिता भृशं सहनशील: । रेष्टारं हिंसकं रेषितुं हिंसितुम् । रोष्टा रोषणशील : शस्त्रसंहतीर्व्यास्यत् क्षिप्तवान् । लङि रूपम् । सर्वत्र 'तीषसहलुभरुपरिषः |७|२|४८|| इति वेट् ॥ ३१ ॥ शस्त्रदिदेविपुं संख्ये दुषुः परिघं कपिः । अदिधिपुर्यशः कीर्तिमीसु वृक्षैरताडयत् ॥ ३२ ॥ शस्त्रै रित्यादि--कपिः अर्दिधिषुः यशो वर्धितुमिच्छुः । परिघं दुद्यूषुः परिघेण क्रीडितुमिच्छुः अक्षं वृक्षैरताडयत, हतवान् । कीदृशम् शस्त्रैर्दिदेविषु क्रीडितुमिच्छुम् । कीर्तिमीसु वर्धितुमिच्छुम् । दिवेरिवन्तस्य 'ऋधु वृद्धी' 'इत्यस्य च 'सनीवन्तर्धभ्रस्जदम्भुश्रिस्वयूर्णभरज्ञपिसनाम् ||२|१९|' इति "
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२९६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति