सर्गः ] अधिकारकाण्डम् । उच्चैरञ्चितलाङ्गलः शिरोऽञ्चित्वेव संवहन् | दधद्विलभितं वातैः केशरं वहिपिङ्गलम् ॥ ४० ॥ उच्चै रित्यादि -- उच्चै रूर्ध्वमश्चितं पूजितं लागूलं पुच्छं यस्य । शोभन विन्यासेन स्थितत्वात् । शिरोऽञ्चित्वेव संवहन् अनम्रत्वात् पूज शिरो बिभ्राणः । ‘अञ्चे: पूजायाम् |७|२|५३|' इति विभाषेट् | वह्निपिङ्गलं च केशरं सटां दधत् विभ्रत् । वातविलुभितम् आकुलितम् । 'लुभो विमोहने । ७।२।५४।' इर्ताट् । विमोहनमाकुलीकरणम् ॥ ४० ॥ (२६१) जरित्वेव जवेनाऽन्ये निपेतुस्तस्य शाखिनः । ब्रश्चित्वा विवशानन्यान्बलेनाऽपातयत्तरून् ॥ ४१ ॥ जरित्वेत्यादि- तस्य कपेजवेन वेगेन अन्ये शाखिनः जरित्वेव जीर्णा इव भूत्वा निपेतुः । अन्यांस्तरून् बलेन वृश्चित्वा छित्त्वा । विवशान् स्रस्तपल्ल- वानपातयत् पातितवान् । 'यो: क्त्व |७|२|५५' इती ॥ ४१ ॥ दमित्वाप्यरिसङ्घातानश्रान्त्वा कपिकेशरी | वनं चचार कर्तिष्यन्नर्त्स्यन्निव निरङ्कुशः ॥ ४२ ॥ दमित्वेत्यादि--कपिकेशरी हनूमान् अरिसंघातान् दमित्वा उपशम नीत्वा । अश्रान्त्वा अपरिश्रान्तो भूत्वा वनं चचार । 'उदितो वा । ७ । २ । ५६ ।' इति विकल्पेनेट् । निरङ्कुशः निरवग्रहः । कर्तिष्यन् छेत्स्यन् । नर्त्स्य- न्निव नर्तुकाम इव । 'सेऽसि चि कृतचृतछृद्तृनृतः । ७ । २ । ५७।१ इात विभाषेट् ॥ ४२ ॥ पारं जिगमिषन्सोऽथ पुनरावर्त्स्यतां द्विषाम् । मत्तद्विरदवद्वेमे बने लङ्कानिवासिनाम् ॥ ४३ ॥ पारमित्यादि- दे - -अथ स कपिद्विषां पारं जिगमिषन् गन्तुमिच्छन् । 'गमे रिट् परस्मैपदेषु । ७ । २।५८ ।। इतीट् । पुनरावर्त्स्यतां प्रतीपीभविष्यताम् । ‘न वृद्वथश्चतुर्भ्यः । ७ । २ । ५९ ।' इतीप्रतिषेधः । 'वृद्भः स्यसनोः । १ । ३ । ९२ ।। इति परस्मैपदम् । लङ्कानिवासिनां वने मत्तद्विरद इव रेमे क्रीडि- तवान् ॥ ४३ ॥ यद्यकल्प्स्यदभिप्रायो योद्धं रक्षःपतेः स्वयम् | तमप्यकर्त्स्यमद्याऽहं वदन्नित्यचरत्कपिः ॥ ४४ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२९९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति