( ३०० ) · भट्टिकाव्ये जयमङ्गलासमेते- विन्ध्यवीरुधो विन्ध्यलतागुल्मा रौः । परिपीतममलनिर्झराम्भो रूपकमिति पश्चिमार्धे कपिनागा इति रूपितम् ॥ २९ ॥ एतदन्वर्थोपमायुक्तं ललामकम् । विटपिट गविषादध्वान्तनुद्वानराऽर्कः प्रियवचनमयूखैर्बोधिताऽर्थाऽरविन्दः । उदयगिरिमिवाऽद्वि सम्प्रमुच्याऽभ्यगात्खं नृपहृदयगुहास्थं नन्प्रमोहाऽन्धकारम् ॥ ३० ॥ विटपीत्यादि--वानरोऽर्क इव [ दशमः- यैस्ते | अर्ध- वानराकः । उदयगिरिमिवाद्रि पर्वतं महेन्द्रं संप्रमुच्य खमाकाशमभ्यगात् अभिगतवान् । विटपि- मृगाणां यो विषाद् आसीत् कथं सीतान्वेषणीयेति स ध्वान्तमिव त जुदतीति क्विप् । प्रियवचनानि मयूखा इव तैः करणभूतैः बोधितमर्थार - विन्दं येन । अर्थः सीतोपलब्धिः सोऽरविन्दमिव । नृपहृदयं गुहेव तत्र तिष्ठतीति नृपहृदयगुहास्थम् । प्रमोहो विषादोऽन्धकार इव तं घ्नन् हनि - व्यन् । वर्तमानसमीपत्वात् भविष्यति लट् । एतदिति रूपकं अन्वर्थयो- पमया युक्तं ललाम नाम । यत उद्देत्यस्मादित्युदयः । 'अकर्तरि च कारके' इत्यधिकृत्य 'एरच् । ३ । ३ । ५६ ।। इत्यच । स चासौ गिरिश्चेत्यनुगता- र्थता । यत्रान्वर्थता नास्त्युपमायाः तदुपमायुक्तमेव रूपकं द्रष्टव्यम् ॥ ३० ॥ इवोपमा । उपमाऽलंकारं दर्शयन्नाह -- रघुतनयमगात्तपोवनस्थं विधृतजटाऽजिनवल्कलं हनूमान् । परमिव पुरुषं नरेण युक्तं समशमवेशसमाधिनाऽनुजेन ॥ ३१ ॥ रघुतनयमित्यादि - हनूमान् रघुतनयमगात् प्राप्तवान् | तपःप्रधानं वनं तपोवनं तत्र स्थितम् । विवृता जटा अजिनं चर्म वल्कलं च येन तम् । अनुजेन कनीयसा भ्रात्रा लक्ष्मणेन समास्तुल्या: शमा वेशा: समाध- यश्च यस्य तेन युक्तं परमुत्तमं पुरुषमिव पुरुषोत्तममिव नरेण युक्तम् । बदरिकाश्रमे नरनारायणयोस्तपश्चर्या स्थितत्वात् । इवोपमेति इवशब्दे- जोपमार्थस्य गम्यमानत्वात् । उपमाया लक्षणम् - 'विरुद्धेनोपमानेन देश- १ अत्र 'सुन्दरी'छन्दः | २ अत्र मालिनी छन्दः, 'ननमयययुतेयं मालिनी भोगि- लोकः ।' इति तल्लक्षणम् । ३ इवेने द्योत्योपमेति भावः । वस्तुतस्तूपमैवालङ्कारः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३३८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति