(३१०) भट्टिकाव्ये जयमङ्गलासमेते- [ दशमः- यस्मिन् सः । तं जलनिधिमगमन् । यद्वत्रं वारिणि तरति तत्प्रशस्तमित्यु- क्तम् । 'एतदेवापरेऽन्येन वाक्यार्थेनान्यथा विदुः । नानारत्नवियुक्तं यत्तत्किलोदारमुच्यते ।।' इति ॥ ५३ ॥ उदारमेव । समुपचितजलं विवर्धमानैरमलसरित्सलिलैर्विभावरीषु । स्फुटमवगमयन्तमूढवारीन् शशधररत्न मयान्महेन्द्र सानून् ॥ ५४ ॥ समुपचितजलमित्यादि--विभावरीषु विवर्धमानैरमलैः सरित्सलिलै: समुपचितजलम् उदधिं स्फुटं स्पष्टमवगमयन्तं बोधयन्तम् । किमित्याह - महेन्द्र - सानून शशधररत्नमयान् चन्द्रकान्त स्वभावान् ऊढवारीन् । अन्यथा कथं धीयते जलं यदि चन्द्रकान्तसानवो न स्युः । उदारमेवेति रत्नयोगात् || ५४ ॥ श्लिष्टम्ं । -6 भुवनभरसहानलङ्घचधाम्नः पुरुरुचिरत्नभृतो गुरुरुदेहान् । श्रम विधुरविलीन कूर्मनक्रान् दधतमुद्रढभुवो गिरीनहींश्च ॥ ५५॥ भुवनभरसहानित्यादि- - गिरीन् भुवनभरसहान् अहींश्च तादृशानेव. दधतं जलनिधिमगमन् । गिरीनलङ्घयधान्न: अहींश्चानभिभवनीयतेजसः । गिरीन् पुरुरुचिरत्नभृतः अश्चि महारुचिरत्नभृतः । गिरीन् गुरुदेहान् अहींश्च महाकायान् । अमविधुराः श्रमपीडिताः विलीना: कूर्मा नाच येषु तान् गिरी नहींश्चोदूद्धभुवो धृतवसुधान् । गिरीनहींच 'नश्छव्य- प्रशान् । ७।३ । ७ ।” इति रुत्वं पूर्वस्यानुनासिकः । श्लिष्टमिति उपमानेनोपमेयत्वस्य साधनात् । तथा चोक्तं विशेषणेन लिष्टम् - 'उप- मानेन यत्तत्त्वमुपमेयस्य साध्यते । क्रियागुणाभ्यां नाम्ना चलिष्ट तदाभर्धायते ।।' इति । अत्रोपमानभूतैरहिभिरुपमेयभूतानां गिरीणां तत्त्वस्य तादृप्यस्य भुवनभरादिताद्र्व्यक्रियया तद्णेन च साधनेन गिरिभि- रहिभिश्च नाम्ना च शब्दन भुवनभरसहानित्यादिना साध्यमानत्वात् । रूपक- मपीदृशमेव । किंतु श्लिष्टस्य भेदेनोपमानोपमेययोर्युगपत्प्रयोगात् । रूपके पुन- रेकस्यैवोपमेयपुरुषस्य व्याघ्र उपमानम् । तथा चोक्तम्-- 'लक्षणं रूपक- ऽपदि विद्यते काममत्र तु | दृष्टः प्रयोगो युगपदुपमानोपमेययोः ॥' इति । १ लिष्टमेव श्लेषः । अत्र 'नपुंसके भावे क्त: ३ | ३ | ११४|' इति भावे क्तः अत्र नार्थः श्लेषः, किंतु शाब्द एवेति बोध्यम् । एवं प्रायः परत्रापि । -
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३४८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति