' सर्गः ] प्रसन्नकाण्डम् | ( ३२५ ) अविष्टं जगत् । यतः प्रनष्टमूर्तिप्रविभागं प्रनष्टः स्थावरजङ्गममूर्तीनां प्रविभागो यस्मिन् तत् । विवस्वानुधन् उद्गच्छन् सन्ततरश्मिरज्जुः प्रवितता रश्मयो मथूखा एव रज्जवो येन सः प्रत्युजहारेत्र उद्धृतवानिव । तत इत्यन्धकारातू || २० ।। पीतोष्ठरागाणि हताऽञ्जनानि भास्वन्ति लोलैरलकै मुर्खानि । प्रातः कृतार्थानि यथा विरेजुस्तथा न पूर्वेचुरलंकृतानि ॥ २१ ॥ पीतौष्ठरागाणीत्यादि — मुखानि वधूनामित्यर्थात् । यथा प्रातः प्रभाते विरेजुः तथा पूर्वेद्युः पूर्वस्मिन्नहनि अलंकृतानि न रेजुः । तेषामकृतार्थत्वात् । तानि पुनः कृतार्थाने कृतकार्याणि । यतो दयितैः पीतौष्ठरागाणि ओष्ठचुम्बनातू हृताञ्जनानि चक्षुषोरपि चुम्बनात् अपगतकज्जलानि• लोलैराकुलैरलकैः कच- कर्षण | भास्वन्ति दीप्तिमन्ति ॥ २१ ॥ प्रजागराताम्रविलोचनाऽन्ता निरञ्जनाऽलक्तकपत्रलेखाः । तुल्या इवासन् परिखेदतन्थ्यो वासच्युताः सेवितमन्मयाभिः॥ २२ ॥ प्रजागरेत्यादि — भर्तृभिः सह्रैकत्र यच्छयनं सवासः तस्माच्च्युता काश्चित् तन्व्यः सेवितमन्मथाभिः अनुष्ठित सुरताभिः तुल्या इवासन् । यतः प्रजागरा- ताम्रविलोचनान्ताः दयितागमनप्रतीक्षणात् यः प्रजागरस्तेन ताम्रनेत्र पर्यन्ताः । नायात इति गृहीतप्रसाधनतया निरञ्जनालक्तकपत्रलेखा: । यदि वा अन्यत्र शयित इति रोदनात् निरञ्जनाः चित्तोन्माथादितस्ततः पादविक्षेपात् विगता- लक्तकाः शयने प्रतिक्षणमुद्वर्तन परिवर्तनात्कपोलादिभ्यो निप्पत्रलेखा इति खेदाच्च तन्व्यः कृशाङ्गः ॥ २२ ॥ आबढनेत्राऽञ्जनपङ्कलेशस्ताम्बूलरागं बहुलं दधानः | चकार कान्तोऽप्यधरोऽङ्गनानां सहोषितानां पतिभिर्लघुत्वम् ॥ २३ ॥ आबद्धेत्यादि-कासांचिदङ्गनानों पतिभिः सहोषितानामध्यवरः लघुत्वं दौर्भाग्यं चकार सूचितवानित्यर्थः । यतस्ता ईप्सितसुरताप्राप्त्या रुदितास्ततश्च बद्धो लग्नो नेत्राञ्जनपकलेशो यस्य सोऽधरो दयितैरपीतत्वाच्च बहुलं ताम्बूल- रागं दधानः कान्तोऽपि लघुत्वं चकार ॥ २३ ॥ चक्षूंषि कान्तान्यपि साऽञ्जनानि ताम्बूलरक्तं च सरागमोष्ठम् | कुर्वन्सवासं च सुगन्धि वक्रं चक्रे जनः केवलपक्षपातम् ॥ २४ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३६३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति