पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३७०) भट्टिकाव्ये जयमङ्गलासमेते- रामबलं कीदृशमित्याह -- । लवण जलबन्धसरसं तरुफलसंपत्तिरुद्धदेहायासम् । लङ्कातोरणवारणमारूढं समरलालसं रामबलम् ॥ ४४ ॥ लवणेत्यादि—लवणजलबन्धाद्धेतोः सरसं सहर्षम् | तरुफलसंपत्त्या रुद्धो- अपनीतः देहायासः क्षुत्पीडा यस्य । लङ्कातोरणस्य वारणं निषेधकम् । आलोलं चञ्चलं समरलालसं रणसतृष्णं रामत्रलं तं सुवेलमारूढमिति पूर्वेण योज्यम् ॥ ४४ ॥ Gas तस्मिन्नारूढे परबलं सन्नद्धमित्थं प्रवृत्तमित्यर्थः । इत्थं कथं तदाह · गुरुपणवेत्यादिना-- [ त्रयोदशः - अथ त्रिभिर्विशेषकम् । गुरुपणववेणुगुञ्जभेरीपेलोरुझल्लरीभीमरवम् । ढक्काघण्टातुमुलं सन्नद्धं परबलं रणायाससहम् ॥ ४५ ॥ गुर्वित्यादि--गुरुपणवादीनां भीमो रवो यस्मिन् परबले तत्र | गुरुपणवो -महान् पणवः । पणवो ढक्का पेला वाद्यविशेषः । उरुझल्लरी महती झल्लरी (झांझ ) इति ख्यातो वाद्यविशेषः । ढक्काघण्टयोस्तुमुल: संमूच्छितः शब्दो यत्रेति । रणायाससहं रणक्लेशसहम् ॥ ४५ ॥ आरूढवाणघोरं विमलायसजालगूढपीवरदेहम् | चञ्चलतुरङ्गवारणसंबट्टाबद्धचारुपरिणाहगुणम् आरूढेत्यादि-धनुषि आरुढबाणत्वात् घोरं परचलम् । विमलेनाय- सजालेन वर्मणा गूढश्छन्न : पीवर : स्थूलो देहो यस्य । चञ्चलानां तुरङ्गाणां वारणानां च यः परस्परसंघट्टः श्लेषणं तेनाबद्धश्चारु: परिणाहगुण: विस्तार एवं गुणो यस्य तत्परबलं संनद्धम् ॥ ४६ ॥ S ॥ ४६ ।। असितोमर कुन्तमहापट्टिशभल्लवरबाणगुरु पुरु मुसलम् । वीररसालङ्कार गुरुसञ्चारहयदन्तिसमहीकम्पम् ॥ ४७ ॥ असोत्यादि --अस्यादीनां वरबाणपर्यन्तानां द्वन्द्वः | तैरस्यादिभिः गुरु अनभिभवनीयं पुरु महन्मुसलं यत्र । अस्यादिगुरु च तत् पुरु मुसलं चेति समासः । वीररस एवालङ्कारो यस्य । गुरुः संचारो येषां हृयदुन्तिनां महाका- यत्वात् तैः समहीकम्पं सह महीकम्पेन वर्तमानं परबलं संनद्धम् ॥ ४७ ।