सर्गः ] तिङ्काण्डम् | (३८५ ) सक्थ्यक्ष्णोः स्वाङ्गातषच् | ५|४|११३॥ इति षच् । रिपुमिन्द्रजितं खेस्थित विदांचकार ज्ञातवान्। ‘उषविद्जागृभ्योऽन्यतरस्याम् | ३ | १|३८ ।' इत्याम् । ननर्द च शब्दितवान् | केदानीं यास्यसीति ॥ ५१ ॥ उज्जुगूरे ततः शैलं हन्तुमिन्द्रजितं कपिः । 33" विहाय रावणिस्तस्मादानंहे चाऽन्तिकं पितुः ॥ ५१ ॥ उज्जुगूर इत्यादि --- ततोऽनन्तरं कपिः सुग्रीवः इन्द्रजितं हन्तुं शैलमु- ज्जुगूरे उत्क्षिप्तवान् ।' गूरी हिंसागत्योः' इति दैवादिकोऽनुदात्तेत् । तस्य गतौ वर्तमानस्य रूपम् । रावणिरिन्द्रजित् विहाय अर्थायुद्धं विहाय तस्मादाकाशात्पितुरन्तिकमानंहे गतः । 'अहि गतौ ।'" 'तस्मान्नुड् द्विहल ।७।४।७१ ।' इति नुट् ॥ ५१ ॥ e आचचक्षे च वृत्तान्तं प्रजहर्ष च रावणः । गाढं चोपजुगूह्रैनं शिरस्युपशिशिङ्ख च ॥ ५२ ॥ आचचक्ष इत्यादि – नागपाशेन राघवौ बद्धाविति वृत्तान्तमाचचक्ष आख्यातवान्, रावणः प्रजहर्ष तुष्टवान्, एनं च रावणिं च उपजुगूह दृढमाश्लिष्टवान् । अत्र कर्तृगाभि क्रियाफलस्याविवक्षितत्वात् तङ् न भवति । 'ऊदुपधाया गोहः |६|४|८९ ॥' इत्त्वम् | शिरास उपशिशिङ्घ आघ्रातवान् ।। 'शिघि आघ्राणे' ॥ ५२ ॥ ध्वजानुदुधुवुस्तुङ्गान् मांसं चेमुर्जगुः पपुः । कामयाञ्चक्रिरे कान्तास्ततस्तुष्टा निशाचराः ॥ ५३ ॥ ध्वजानित्यादि -- ततो निशाचरा अपि श्रुत्वा तुष्टाः सन्तः ध्वजां स्तुङ्गानुहुधुवुः उत्क्षिप्तवन्तः, मांसं चेमुः खादितवन्तः 'चमु छमु अदने ।' जगुगतवन्तः, पपुः मद्यं पीतवन्तः, कान्ताः कामयाञ्चक्रिरे । कमे-- र्णिङन्तादाम् ॥ ५३ ॥ दर्शयाञ्चक्रिरे रामं सीतां राज्ञश्च शासनात् । तस्या मिलीलतुर्नेत्रे ठुलुठे पुष्पकोदरे ॥ ५४ ॥ दर्शयामित्यादि - तथाभूर्त रामं दृष्ट्वा सीता मम विधेया स्यादित्यभिप्रा- यवतो राज्ञो रावणस्य आज्ञया राक्षसाः अशोकवनिकातः पुष्पकमारुह्य सीतां रामं दर्शया चक्रिरे दर्शितवन्तः । 'अभिवादिदृशोरात्मनेपदं वेति वाच्यम्” १ अनुकूलेत्यर्थः । 'विधेयो विनयग्रांही वचने स्थित आश्रवः ।' इत्यमरः । २५
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति